Saturday 14 October 2017

दीप लक्ष्मी स्तवम् ॥


दीप लक्ष्मी स्तवम्

अन्तर्गृहे हेमसुवेदिकायां सम्मार्जनालेपनकर्म कृत्वा ।
विधानधूपातुलपञ्चवर्णं चूर्णप्रयुक्ताद्भुतरङ्गवल्याम् ॥
अगाधसम्पूर्णसरस्समाने, गोसर्पिषाऽऽपूरितमध्यदेशे ।
मृणालतन्तुकृतवर्त्तियुक्ते पुष्पावतंसे तिलकाभिरामे 
परिष्कृतस्थापितरत्नदीपे ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् ।
नमाम्यहं मत्कुलवृद्धिदात्रीं, सौदादि सर्वाङ्गणशोभमानाम् ॥
भो दीपलक्ष्मि प्रथितं यशो मे प्रदेहि माङ्गल्यममोघशीले ।
भर्तृप्रियां धर्मविशिष्टशीलां, कुरुष्व कल्याण्यनुकम्पया माम् ॥
यान्तर्बहिश्चापि तमोऽपहन्त्री, सन्ध्यामुखाराधितपादपद्मा ।
त्रयीसमुद्घोषितवैभवा सा, ह्यनन्यकामे हृदये विभातु ॥
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।
आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे ॥
सन्ध्यादीपस्तवमिदं नित्यं नारी पठेत्तु या ।
सर्वसौभाग्ययुक्ता स्याल्लक्ष्म्यनुग्रहतस्सदा ॥


शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
इति दीपलक्ष्मी स्तवं सम्पूर्णम् ।

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...