Sunday 31 December 2017

श्री सरस्वती सुप्रभातम्

श्री सरस्वती सुप्रभातम्
उत्तिष्ठोत्तिष्ठ! हे वाणि! उत्तिष्ठ! हंसिनीध्वजे ।
उत्तिष्ठ! ब्रह्मणो राज्ञि! त्रैलोक्यं मङ्गलं कुरु ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
जागृहि त्वं महादेवि! जागृहि त्वं सरस्वति! ।
जागृहि त्वं चतुर्वेदि! लोकरक्षाविधिं कुरु! ॥ २॥
लोकाः सर्वे शुचाम्भोधौ निमग्नास्तान् समुद्धर!
त्वमेवैका स्वयंव्यक्ता समर्था सिकताभवा! ॥ ३
श्रीवाणि! सर्वजगतां जननि! प्रमोदे!
जिह्वाग्रवासिनि मनोहरि वेधसस्त्वम् ।
वाञ्छाप्रदायिनि! समाश्रितभक्तकोटेः
श्रीपद्मजातदयिते! तव सुप्रभातम्! ॥ ४॥
तव सुप्रभातमखिलार्थदायिनि!
कमनीयगात्रि! करुणातरङ्गिणि!
कमलायताक्षि! वदनेन्दुमण्डले !
परमेष्ठिदेवि! सुरसुन्दरीसुते! ॥ ॥ ५॥
श्रीव्यासपूजितपदाम्बुजकोमलाङ्गि!
कार्तस्वराञ्चितविशेषविभूषिताङ्गि! ।
प्रालेयमौक्तिकशशाङ्कसुशोभिताङ्गि!
श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ ६॥
श्रीगौतमीतटसमीकृतसैकतेन
व्यासेन सेचनसमाहित श्रीकरैश्च ।
श्रीषोडशी मनुजसेन निरूपिता त्वं
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ७॥
वल्लीत्रयान्तरसुचक्रसमर्चनेन var सुचित्र
श्रीमन्त्रवाग्भवसमुच्चय कूटदेशे! ।
व्यक्तासि रक्षितुमितः स्वयमेव देवि ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ८॥
श्रीमन्त्रराजतनुबीजविराजमानां
ओङ्कारतत्त्वविशदाय गृहीतमूर्तिम्! ।
त्वां पण्डिता भुवि भजन्ति सरस्वतीति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ९॥
ओङ्कारपञ्जरशुकीं निगमान्त वेद्यां!
ह्रीं मातृकावरण श्रींयुत ब्लूञ्च सौरैम् ।
क्लीं सौश्च सैङ्गतदशाक्षरदेवि वन्दे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १०॥
संसारतारकमहामनुबीजवर्णां
मायामयीं गुणमयीं सगुणोद्भवां त्वाम् ।
शक्तित्रयात्मकचितीति जपन्ति बुद्धाः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ११॥
सौन्दर्यवारधितरङ्ग परम्परायां
वेलानिरूपकमनोहरदेहदीपे ।
सर्वोपमाननिचयस्य समोपमेये
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १२॥
सङ्गीतवाङ्मयकलाप्तसुहासनेत्रि!
रागैश्च षोडशसहस्रविधैश्च गीते ।
आनन्ददायकरसैर्खनिभिश्च पूर्णे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १३॥
सौभाग्यदे! त्वमिह विद्रुमवर्णलक्ष्मीः
विद्याप्रदे! त्वमिह धौतसुधांशुवाणि ।
शत्रुञ्जये! त्वमिह नीलतमालकाळी
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १४॥
श्रीचक्रमन्दिरविहारिणि! राज्यलक्ष्मि!
राकासुधाकरशिरोमणि! नीलवेणि! ।
राजीवलोचनशिरीषसुमाग्रनासे ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १५॥
कौमारशैलशिखरे सुखवासयोग्ये
सूर्येन्द्रविष्णुशिवपुत्रगणेशमुख्यैः ।
वासिष्ठवारुणिवरैश्च सुपूततीर्थे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १६॥
अष्टाब्जपुञ्जितविशेषवयोविलासे!
बिम्बाधराञ्चितसुहासविलासरेखे/नेत्रे! ।
कारुण्यपूरितदृगञ्चलरम्यमूर्ते
श्रीवाणि! वासरपुरे! तवसुप्रभातम्! ॥ १७॥
औदुम्बराख्यतरुमूलपवित्रदेशे
दत्तावधूतयतिरत्र गृहीतदीक्षः ।
जप्त्वा त्वदीयशुभनाम बभूव सिद्धः
श्रीवाणि ! वासरपुरे! तव सुप्रभातम्! ॥ १८॥
प्रत्यूषरञ्जितनवार्कमरीचिपुञ्जाः
प्रान्तप्रशान्तप्रकृतिं रमणीयदृश्याम् ।
सम्भावयन्ति च विरच्य सरस्वतीह
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ १९॥
नित्यं तवार्चकसुधीश्च मुखारविन्दं
श्रीखण्डचूर्णहरितालसुगन्धतीर्थैः ।
ब्राह्मे मुहूर्तसमये रचनां करोति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ ! २०॥
सप्तस्वराञ्चितमनोहरनादयुक्तैः
प्राभातकालिकसुनादविनोदरागैः ।
गायन्ति कोकिलमयूरमरालचक्राः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २१॥
दीक्षाविधाननियमानुसरेण भक्ताः
गत्वा पुरे भवति! देहि घृणाक्षभिक्षम् ।
याचन्ति तानिति गृहस्थतदात्मरूपान्
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २२॥
योगीशमानससरोवरराजहंसि!
भक्तालिमानससरोजविहारभृङ्गि! ।
श्रीचक्रषोडशमहामनुबीजवासे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २३॥
ज्ञानात्मिके! विविधवस्तुविवेकरूपे!
इच्छात्मिके! भगवदात्मसमानरूपे! ।
यत्नात्मिके! परमधाम समात्तरूपे
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २४॥
शिञ्जानकङ्कणनिनादविनोदपाणे!
वीणाविवादनविजृम्भितपूर्णरागे! ।
विन्यस्तहस्तभ्रुकुटीचुबुकाक्षिवत्से
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २५॥
कूजन्ति देवि! चरणायुधपक्षिसङ्घाः!
गायन्ति देवि! तव मागधवन्दिवृन्दाः ।
अर्चन्ति देवि! भुवि वैदिककाव्यशिष्याः
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २६॥
दिव्यापगाविकसिताच्छसुवर्णपुष्पाः
हस्ताश्च मन्त्रपठनानुरणेन देवाः ।
तिष्ठन्ति देवि! तव मन्दिरमुख्यमार्गे ।
श्रीवाणि! वासरपुरे! तव सुप्रभातम् ॥ २७॥
दिक्पालकाश्च तव पीठककोणदेशे
श्रीचक्रमन्दिरनवावरणेषु देवाः ।
स्थित्वा च मङ्गलपुरश्चरणं पठन्ति
श्रीवाणि! वासरपुरे! तव सुप्रभातम्! ॥ २८॥
इत्थं सरस्वति! कृतं चिनवेङ्कनेन
वेदान्तमन्त्रजपपाठविधानपूर्वम् ।
पारायणेन च पवित्रचरित्रगानं
पुण्यावहं सकलमङ्गलसुप्रभातम्! ॥ २९॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!
इति श्री सरस्वती सुप्रभातं समाप्त्म् ॥

श्री गायत्री सुप्रभातम् shri gayatrI suprabhatam

श्री गायत्री सुप्रभातम् shri gayatrI suprabhatam
श्री पातूरि सीतारामांजनेयुलु कृत
श्रीरस्तु ॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
श्री जानिरद्रितनयापतिरब्जगर्भः
सर्वे च दैवतगणाः समहर्षयोऽमी ।
एते भूतनिचयाः समुदीरयन्ति
गायत्रि - लोकविनुते तव सुप्रभातम् ॥ १॥
पुष्पोच्चयप्रविलसत्करकंजयुग्माम्
गंगादिदिव्यतटिनीवरतीरदेशे- ।
ष्वर्घ्यम् समर्पयितुमत्रजनास्तवैते
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २॥
कर्णेऽमृतम् विकिरता स्वरसंचयेन
सर्वे द्विजाः श्रुतिगणम् समुदीरयन्ति ।
पश्याश्रमासथ वृक्षतलेषु देवि
गायति -लोकविनुते -तव सुप्रभातम् ॥ ४॥
गावो महर्षिनिचयाश्रम भूमिभागात्
गन्तुम् वनाय शनकैः शनकैः प्रयान्ति ।
वत्सान् पयोऽमृतरसम् ननु पाययित्या
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ४॥
शिष्य प्रबोधनपरा वर मौनि मुख्याः
व्याख्यान्ति वेदगदितम् स्फुट धर्म ततत्त्वम् ।
स्वीयाश्रमाङ्गणतलेषु मनोहरेषु
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ५॥
श्रोत्रामृतम् श्रुतिरवम् कलयन्त एते
विस्मृत्य गन्तुमटवीम् फललाभलोभात् ।
वृक्षाग्र भूमिषु वनेषु लसन्ति कीराः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ६॥
मूर्तित्रयात्मकलिते निगम त्रयेण
वेद्ये स्वरत्रय परिस्फुट मन्तरूपे
तत्त्वप्रबोधनपरोपनिषत्प्रपञ्चे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ७॥
विश्वात्मिके निगमशीर्षवतंसरूपे
सर्वागमान्तरुदिते वरतैजसात्मन् ।
प्राज्ञात्मिके सृजनपोषणसंहृतिस्थे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ८॥
तुर्यात्मिके सकलतत्त्वगणानतीते
आनन्दभोगकलिते परमार्धदत्रि
ब्रह्मानुभूतिवरदे सततम् जनानाम् ।
गायत्रि - लोकविनुते -सुप्रभातम् ॥ ९॥
तारस्वरेण मधुरम् परिगीयमाने
मन्द्रस्वरेण मधुरेण च मध्यमेन ।
गानात्मिके निखिललोक मनोज्ञ भावे
गायत्रि - लोकविनुते - तव सुपभातम् ॥ १०॥
पापाटवी दहन जागृत मानसा त्वम्
भक्तौघ पालन निरंतर दीक्षिताऽसि ।
त्वय्येव विश्वमखिलम् स्थिरतामुपैति
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ ११॥
या वैदिकी निखिल पावन पावनी वाक्
या लौकिकी व्यवहृति प्रवणा जनानाम् ।
या काव्यरूप कलिता तव रूप मेताः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १२॥
दिव्यम् विमानमधिरुह्य नभोङ्गणेऽत्र
गायन्ति दिव्य महिमानमिमे भवत्याः ।
पश्य प्रसीद निचया दिविजाङ्गनानाम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १३॥
हैमीम् रुचम् सकल भूमिरुहाग्रदेशे-
ष्वाधाय तत्कृत परोपकृतौ प्रसन्नः ।
भानुः करोत्यवसरे कनकाभिषेकम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १४॥
दिव्यापगासु सरसीषु वनी निकुङ्जे-
षूच्चावचानि कुसुमानि मनोहराणि ।
पुल्लानि सन्ति परितस्तव पूजनाय
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १५॥
कुर्वन्ति पक्षिनिचयाः कलगानमेते
वृक्षाग्रमुन्नततरासनमाश्रयन्तः
देवि - त्वदीय महिमानमुदीरयन्तो
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १६॥
विश्वेशि - विष्णुभगिनि - श्रुतिवाक्स्वरूपे -
तन्मात्रिके - निखिलमन्तमयस्वरूपे -
गानात्मिके - निखिलतत्त्वनिजस्वरूपे -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १७॥
तेजोमयि - त्रिभुवनावनसक्तचित्ते -
सन्धात्मिके - सकल काल कला स्वरूपे -
मृत्युंजये - जयिनि - नित्यनिरंतरात्मन् -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १८॥
त्वामेव देवि - परितो निखिलानि तन्त्रा-
ण्याभाति तत्त्वमखिलम् भवतीम् विवृण्वत् ।
त्वम् सर्वदाऽसि तरुणारुणदिव्यदेहे -
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ १९॥
नित्याऽसि देवि - भवती निखिले प्रपञ्चे
वन्द्याऽसि सर्व भुवनैः सततोद्यतासि ।
धी प्रेरिकाऽसि भुवनस्य चराचरस्य
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २०॥
वन्दामहे भगवतीम् भवतीम् भवाब्धि-
सन्तारिणीम् त्रिकरणैः करुणामृताब्दे-
सम्पश्य चिन्मयतनो - करुणार्द्रदृष्ट्या
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २१॥
त्वम् मातृकामयतनुः परम प्रभावा
त्वय्येव देवि - परमः पुरुषः पुराणः ।
त्वत्तः समस्त भुवनानि समुल्लसन्ति
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २२॥
त्वम् वै प्रसूर्निखिलदेवगणस्य देवि
त्वम् स्तूयसे त्रिषवणम् निखिलैश्च लोकैः ।
त्वम् देश काल परमार्थ परिस्फुटासि
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २३॥
त्वम् गाधिसूनु परमर्षि वरेण दृष्टा
तेजोमयी सवितुरात्ममयाखिलार्था ।
सर्वार्थदा प्रणत भक्त जनस्य शश्वत्
गायत्रि - लोकविनुतो - तव सुप्रभातम् ॥ २४॥
संकल्प्य लोकमखिलम् मनसैव सूषे
कारुण्यभाव कलिताऽवसि लोकमाता ।
कोपान्विता तमखिलम् कुरुषे प्रलीनम्
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २५॥
मुक्ताभ विद्रुम सुवर्ण महेन्द्र नील
श्वेतप्रभैर् भुवन रक्षण बुद्धि दीक्षैः ।
वक्त्रैर्युते - निगम मातरुदारसत्त्वे
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २६॥
कारुण्य वीचि निचयामल कान्ति कान्ताम्
ब्रह्मादि सर्व दिविजेड्य महाप्रभावाम् ।
प्रीत्या प्रसारय दृशम् मयि लोकमातः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २७॥
श्री लक्ष्मणादि गुरु सत्करुणैकलब्ध-
विद्या विनीत मतियानय माङनेयः ।
संसेवतेऽत्रभवतीम् भुवतीम् वचोभिः
गायत्रि - लोकविनुते - तव सुप्रभातम् ॥ २८॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!
इति सीतारामाङ्जनेय कवि कृत गायत्री सुप्रभातम् ॥

उडुपि श्रीकृष्ण सुप्रभातम् ..udupi shri krishna suprabhatam

उडुपि श्रीकृष्ण सुप्रभातम् ..udupi shri krishna suprabhatam

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥॥
नारायणाखिल शरण्य रथाङ्ग पाणे ।
प्राणायमान विजयागणित प्रभाव ।
गीर्वाणवैरि कदलीवन वारणेन्द्र ।
मध्वेश कृष्ण भगवन् तव सुप्रभातं ॥ १॥
उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् ।
उत्तिष्ठ विश्व रचना चतुरैक शिल्पिन् ।
उत्तिष्ठ वैष्णव मतोद्भव धामवासिन् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २॥
उत्तिष्ठ पातय कृपामसृणान् कटाक्षान् ।
उत्तिष्ठ दर्शय सुमङ्गल विग्रहन्ते ।
उत्तिष्ठ पालय जनान् शरणं प्रपन्नान् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३॥
उत्तिष्ठ यादव मुकुन्द हरे मुरारे ।
उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो ।
उत्तिष्ठ योगिजन मानस राजहंस ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ४॥
उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ ।
पद्मोद्भवस्य जनकाच्युत पद्मनेत्र ।
उत्तिष्ठ पद्मसख मण्डल मध्यवर्तिन् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ५॥
मध्वाख्यया रजतपीठपुरेवतीर्णः ।
त्वत्कार्य साधनपटुः पवमान देवः ।
मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ६॥
सन्यास योगनिरताश्रवणादिभिस्त्वां ।
भक्तेर्गुणैर्नवभिरात्म निवेदनान्तैः ।
अष्टौयजन्ति यतिनो जगतामधीशं ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ७॥
या द्वारकापुरि पुरातव दिव्यमूर्तिः ।
सम्पूजिताष्ट महिषीभिरनन्य भक्त्या ।
अद्यार्चयन्ति यतयोष्टमठाधिपास्तां ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ८॥
वामेकरे मथनदण्डमसव्य हस्ते ।
गृह्णंश्च पाशमुपदेष्टु मना इवासि ।
गोपालनं सुखकरं कुरुतेति लोकान् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ९॥
सम्मोहिताखिल चराचररूप विश्व ।
श्रोत्राभिराममुरली मधुरारवेण ।
आधायवादयकरेण पुनश्चवेणुं ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १०॥
गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ ।
यस्याहरत्सकललोकहृदान्धकारं ।
सत्वं स्थितो रजतपीठपुरे विभासी ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ११॥
कृष्णेति मङ्गलपदं कृकवाकुवृन्दं ।
वक्तुं प्रयत्य विफलं बहुशः कुकूकुः ।
त्वां सम्प्रबोधयितुमुच्चरतीतिमन्ये ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १२॥
भृङ्गापिपासव इमे मधु पद्मषन्दे ।
कृष्णार्पणं सुमरसो स्वितिहर्षभाजः ।
झङ्कार राव मिषतः कथयन्ति मन्ये ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १३॥
निर्यान्ति शावक वियोगयुता विहङ्गाः ।
प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडं ।
धावन्ति सस्य कणिकानुपचेतु मारात् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १४॥
भूत्वातिथिः सुमनसामनिलः सुगन्धं ।
सङ्गृह्यवाति जनयन् प्रमदं जनानां ।
विश्वात्मनोर्चनधियातव मुञ्च निद्रां ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १५॥
तारालि मौक्तिक विभूषण मण्डिताङ्गी ।
प्राचीदुकूल मरुणं रुचिरं दधान ।
खेसौखसुप्तिक वधूरिव दृश्यतेद्य ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १६॥
आलोक्य देह सुषमां तव तारकालिः ।
ह्रीणाक्रमेण समुपेत्य विवर्णभावं ।
अन्तर्हितेवनचिरात्यज शेषशय्यां ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १७॥
साध्वीकराब्जवलयध्वनिनासमेतो ।
गानध्वनिः सुदधि मन्थन घोष पुष्टः ।
संश्रूयते प्रतिग्रहं रजनी विनष्टा ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १८॥
भास्वानुदेश्यति हिमांशुर भूद्गतश्रीः ।
पूर्वान्दिशामरुणयन् समुपैत्यनूरुः ।
आशाः प्रसाद सुभगाश्च गतत्रियामा ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १९॥
आदित्य चन्द्र धरणी सुत रौहिणेय ।
जीवोशनः शनिविधुं तुदकेतवस्ते ।
दासानुदास परिचारक भृत्य भृत्य ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २०॥
इन्द्राग्नि दण्डधर निर्रिति पाशिवायु ।
वित्तेश भूत पतयो हरितामधीशाः ।
आराधयन्ति पदवी च्युति शङ्कया त्वाम् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २१॥
वीणां सती कमलजस्य करे दधाना ।
तन्त्र्यागलस्य चरवे कलयन्त्य भेदं ।
विश्वं निमज्जयति गानसुधारसाब्धौ ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २२॥
देवर्षिरंबर तलादवनीं प्रपन्नः ।
त्वत्सन्निधौ मधुरवादित चारु वीणा ।
नामानिगायति नत स्फुरितोत्तमाङ्गो ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २३॥
वातात्मजः प्रणत कल्प तरुर्हनूमान् ।
द्वारे कृताञ्जलि पुटस्तवदर्शनार्थी ।
तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रं ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २४॥
सर्वोत्तमो हरिरिति श्रुतिवाक्य वृन्दैः ।
चन्द्रेश्वर द्विरदवक्त्र षडाननाद्याः ।
उद्घोशयन्त्य निमिषा रजनी प्रभात ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २५॥
मध्वाभिदे सरसि पुण्यजले प्रभाते ।
गङ्गेंभ सर्वमघमाशु हरेति जप्त्वा ।
मज्जन्ति वैदिक शिखामणयो यथावन् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २६॥
द्वारे मिलन्ति निगमान्त विदस्त्रयीज्ञाः ।
मीमांसकाः पदविदोनयदर्शनज्ञाः ।
गान्धर्ववेद कुशलाश्च तवेक्षणार्थं ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २७॥
श्री मध्वयोगि वरवन्दित पादपद्म ।
भैष्मी मुखांभोरुह भास्कर विश्ववन्द्य ।
दासाग्रगण्य कनकादिनुत प्रभाव ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २८॥
पर्याय पीठ मधिरुह्य मठाधिपास्त्वां ।
अष्टौ भजन्ति विधिवत् सततं यतीन्द्राः ।
श्री वादिराजनियमान् परिपालयन्तो ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २९॥
श्रीमन्ननन्त शयनोडुपिवास शौरे ।
पूर्णप्रबोध हृदयांबर शीत रश्मे ।
लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३०॥
श्री प्राणनाथ करुणा वरुणालयार्त ।
सन्त्राण शौन्द रमणीय गुणप्रपूर्ण ।
सङ्कर्षणानुज फणीन्द्र फणा वितान ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३१॥
आनन्दतुन्दिल पुरन्दर पूर्वदास ।
वृन्दाभिवन्दित पदांबुजनन्द सूनो ।
गोविन्द मन्दरगिरीन्द्र धरांबुदाभ ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३२॥
मीनाकृते कमठरूप वराहमूर्ते ।
स्वामिन् नृसिंह बलिसूदन जामदग्न्यः ।
श्री राघवेन्द्र यदुपुङ्गव बुद्ध कल्किन् ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३३॥
गोपाल गोप ललनाकुलरासलीला ।
लोलाभ्रनील कमलेश कृपालवाल ।
कालीयमौलि विलसन्मणिरञ्जिताङ्घ्रे ।
मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३४॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!
कृष्णस्य मङ्गल निधेर्भुवि सुप्रभातं ।
येहर्मुखे प्रतिदिनं मनुजाः पठन्ति ।
विन्दन्ति ते सकल वाञ्छित सिद्धिमाशु ।
ज्ञानञ्च मुक्ति सुलभं परमं लभन्ते ॥ ३५॥
श्रीकृष्णार्पणमस्तु ॥

श्री वेङ्कटेश सुप्रभातम् ॥Shri Venkatesha Suprabhatam

श्री वेङ्कटेश सुप्रभातम् ॥Shri Venkatesha Suprabhatam
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते ।
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३॥
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४॥
अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५॥
पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६॥
ईषत्प्रफुल्लसरसीरुहनारिकेल-
पूगद्रुमादिसुमनोहरपालिकानाम् ।
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७॥
उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्टकदलीफलपायसानि
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८॥
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९॥
भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीत निनदैःसह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १०॥
योषागणेन वरदध्निविमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११॥
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२॥
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तर दिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥
श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥
श्रीशेषशैलगरुडाचलवेङ्कटाद्र
नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥
सेवापराः शिवसुरेशकृशानुधर्म-
रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशा
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥
घाटीषु ते विहगराजमृगाधिराज-
नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥
सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि
स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वद्दासदासचरमावधिदासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥
श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिन्ह शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥
कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुट्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥
एलालवङ्गघनसारसुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५॥
भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६॥
ब्रह्मादयः सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तु हस्ता
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्य निजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥
इत्थं वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९॥
इति वेङ्कटेशसुप्रभातम् ॥
अथ वेङ्कटेशस्तोत्रम् ॥
कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते
विजयी भव वेङ्कटशैलपते ॥ १॥
सचतुर्मुखषण्मुखपञ्चमुख-
प्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥ २॥
अतिवेलतया तव दुर्विषहैः
अनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥ ३॥
अधिवेङ्कटशैलमुदारमते
जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः
कमलादयितान्न परं कलये ॥ ४॥
कलवेणुरवावशगोपवधू
शतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिवल्लविकाभिमतात्सुखदात्
वसुदेवसुतान्न परं कलये ॥ ५॥
अभिरामगुणाकर दाशरथ
जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो
वरदो भव देव दयाजलधे ॥ ६॥
अवनीतनयाकमनीयकरं
रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराममये ॥ ७॥
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे ॥ ८॥
विना वेङ्कटेशं नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९॥
अहं दूरतस्ते पदाम्भोजयुग्म-
प्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १०॥
अज्ञानिना मया दोषान्
अशेषान्विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं
शेषशैलशिखामणे ॥ ११॥
इति वेङ्कटेशस्तोत्रम् ॥
अथ वेङ्कटेशप्रपत्ति ॥
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम्
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २॥
आनूपुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यसौरभकरौ समसन्निवेशौ ।
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३॥
सद्योविकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४॥
रेखामयध्वजसुधाकलशातपत्र
वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः ।
भव्यैरलङ्कृततलौ परतत्व चिन्हैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५॥
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ ।
उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६॥
सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ ।
कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८॥
नित्यान्नमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः ।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९॥
विष्णोः पदे परम इत्युतिदप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १०॥
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११॥
मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३॥
प्रायः प्रपन्नजनता प्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४॥
सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संसारतारकदयार्द्र दृगञ्चलेन ।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५॥
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्य
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६॥
इति वेङ्कटेशप्रपत्ति ॥
॥ अथ वेङ्कटेशमङ्गलाशासनम् ॥
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥
लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २॥
श्रीवेङ्कटाद्रिशृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३॥
सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ५॥
स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिण
सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ ६॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७॥
आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८॥
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ९॥
दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलै
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १०॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२॥
श्रीमत्सुन्दरजामातृमुनिमानसवासिने
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!
मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४॥
इति वेङ्कटेशमङ्गलाशासनम् ॥ ॐ तत्सत् ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...