Friday 29 December 2017

धन्वन्तरी सुप्रभातम् ,dhanvantari suprabhatam

धन्वन्तरी सुप्रभातम् ,dhanvantari suprabhatam
https://goo.gl/maps/N9irC7JL1Noar9Kt5  
अस्मत्स्तवम् जलधिमन्थनघोषतुल्य -
माकर्ण्य भग्न निजयोगसमाधिनिद्रः ।
उन्मील्य नेत्रयुगलीमवलोकयास्मान्,
धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ १॥
क्षीरार्णवे भुजगवर्ष्मणि योगनिद्रा -
लीनस्य निस्तुलनिजात्मसुखोत्सुकस्य ।
कारुण्यतोऽद्य शयनात् स्वयमुत्थितस्य,
धन्वन्तरे, मधुरिपो तव सुप्रभातम् ॥ २॥
उद्बिभ्रतो नवसुधाकलशं जलूकां,
शंखं रथाङ्गमपि पाणितलैश्चतुर्भिः ।
चिह्नानि कौस्तुभमुखानि च तत्तद्ङ्गैर्
धन्वन्तरे, मुररिपो तव सुप्रभातम् ॥ ३
आनीलगात्र, कपिशाम्बर, वन्यमालिन्,
काञ्चीकिरीटकटकादि विभूषिताङ्ग ।
धन्वन्तरे धृतसुधाघट दीनबन्धो,
भो भोतु ते भवचिकित्सक सुप्रभातम् ॥ ४॥
आपीनदीर्घभुजदण्ड मृगादिपांस,
कारूण्यशीतलविलोचन कम्बुकण्ठ ।
हासोल्लसन्मुख विशाल भुजान्तराल,
धन्वन्तरेऽस्तु भगवंस्तव सुप्रभातम् ॥ ५॥
विष्णो, जनार्दन, मुरान्तक, वासुदेव,
वैकुण्ठ, केशव, हरे, जगदीश, शौरे ।
गोविन्द, नन्दसुत, कंसरिपो, मुकुन्द,
धन्वन्तरे भवतु भो तव सुप्रभातम् ॥ ६॥
पञ्चास्त्रकोटिकमनीय कलेवराय,
पञ्चास्यसन्निभविलोकन विक्रमाय ।
रागादिरोगकुलनाशकृतेऽस्तु तुभ्यम्,
धन्वन्तरे प्रणतवत्सल सुप्रभातम् ॥ ७॥
नाम्नैव यो झटितिकृन्तति दोषकोपम्,
स्मृत्यैव यस्सपदि हन्ति गुणत्रयं च ।
बाह्यन्तरद्विविध रोगहरस्य तस्य,
धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ ८॥
द्रव्यामृतस्य कलशार्णव निर्गतस्य,
ज्ञानामृतस्य निगमाब्धि समुत्थितस्य ।
रोगद्वय प्रशमनाय नृणां प्रदातुर्,
धन्वन्तरे, भवतु भो तव सुप्रभातम् ॥ ९॥
अमृतघटजवूकं चक्रशंखांश्चतुर्भिः,
मसृणकरसरोजैर्बिभ्रते, विश्वगोप्त्रे ।
उभयनरकहंत्रे, नाथ, धन्वन्तरे, ते,
भवतु शुभवराणां दाशुषे सुप्रभातम् ॥ १०॥
मेघश्यामललोभनीयवपुषे विध्युत् स्फुरद्वाससे,
श्रीमद्दीर्घ चतुर्भुजैः नवसुधाकुम्भम् जलूकामरिम् ।
शंखंचोद्वहते, कृपाप्लुतदृशे मन्दस्मितश्रीमुचे,
भूयात् सन्तत सुप्रभातमयि भो धन्वन्तरे ते हरे ॥ ११॥
आयुर्वेदविधायिन स्तनुभृतामन्तर्बहिर्वासिनः,
श्रीनामौषधदायिनो, भवमहारोगस्य संहारिणः ।
निर्वाणामृतवर्षिणो निजयशस्सिन्धौ जगत् प्लावितो,
भो भूयात्तव सुप्रभात मयि भो धन्वन्तरे श्रीहरे ॥ १२॥
सर्वेषां सुखहेतवे, भव महापाथोनिधेस्सेतवे,
मुक्तिश्रीजयकेतवे, मृतिभयत्रस्तस्य जीवातवे ।
सक्तानां सुरधेनवे, विधिविमृग्यांघ्रिद्वयीरेणवे,
भूयादुज्ज्वल सुप्रभातमयि ते गोविन्द धन्वन्तरे ॥ १३॥
श्रीधन्वन्तरिमूर्तये सुरवरैरुद्गीतसत्कीर्तये,
विध्वस्तप्रणतार्त्तये त्रिभुवनी सौभाग्यसम्पूर्तये ।
कारुण्यामृतसिन्धवे भवरुजाशान्त्यर्थिना बन्धवे,
तुभ्यम् भास्वर सुप्रभातमयि भो, भूयोऽपि भो भूयताम् ॥ १४॥
!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
भक्तैर्निर्मथ्य मानान्नवविधभगवद्धर्मदुग्धाम्बुराशेः,
प्रादुर्भूताय भक्त्यात्मकवयुनसुधाकुम्भ हस्ताम्बुजाय,
संसारव्याधिहंत्रे, निरुपम परमानन्द सन्दोहदात्रे,
भो भूयात् सुप्रभातं मुरमथन, हरे कृष्ण धन्वन्तरे ते ॥ १५॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...