Tuesday 19 December 2017

आञ्जनेयभुजङ्गप्रयात स्तोत्रम् Anjaneya bhujangapray stotram

ञ्जनेयभुजङ्गप्रयात स्तोत्रम् Anjaneya bhujangapray stotram
अथ ध्यानम् ।
मनोजवं मारुततुल्यवेगम्
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यम्
श्रीरामदूतं शरणं प्रपद्ये ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमत् प्रचोदयात् ॥
ॐ फ्रौं ।
ॐ नमो हनुमते आवेषे आवेषे स्वाहा ।
ॐ हूं हनुमते रुद्रात्मकाये हूं फट् स्वाहा ।
ॐ ऐं भ्रीं हनुमते श्रीरामदूताय नमः ।
ॐ ह्रीं हरि मर्कट मर्कटाय स्वाहा ।
अथ स्तोत्रम् ।
प्रपन्नानुरागं प्रभाकाञ्चनाभं
जगद्भीतिशौर्यं तुषाराद्रिधैर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं पवित्राप्तमित्रम् ॥ १॥

भजे पावनं भावनानित्यवासं
भजे बालभानु प्रभाचारुभासम् ।
भजे चन्द्रिकाकुन्द मन्दारहासं
भजे सन्ततं रामभूपाल दासम् ॥ २॥

भजे लक्ष्मणप्राणरक्षातिदक्षं
भजे तोषितानेक गीर्वाणपक्षम् ।
भजे घोरसङ्ग्राम सीमाहताक्षं
भजे रामनामाति सम्प्राप्तरक्षम् ॥ ३॥

कृताभीलनादं क्षितिक्षिप्तपादं
घनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताश्मं
जयश्री समेतं भजे रामदूतम् ॥ ४॥

चलद्वालघातं भ्रमच्चक्रवालं
कठोराट्टहासं प्रभिन्नाब्जजाण्डम् ।
महासिंहनादा द्विशीर्णत्रिलोकं
भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥

रणे भीषणे मेघनादे सनादे
सरोषे समारोपिते मित्रमुख्ये ।
खगानां घनानां सुराणां च मार्गे
नटन्तं वहन्तं हनूमन्त मीडे ॥ ६॥

कनद्रत्न जम्भारि दम्भोलिधारं
कनद्दन्त निर्धूतकालोग्र दन्तम् ।
पदाघातभीताब्धि भूतादिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ७॥

महागर्भपीडां महोत्पातपीडां
महारोगपीडां महातीव्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तो
नमस्ते कपिश्रेष्ठ रामप्रियोयः ॥ ८॥

सुधासिन्धुमुल्लङ्घ्य नाथोग्र दीप्तः
सुधाचौषदीस्ताः प्रगुप्तप्रभावम् ।
क्षणद्रोणशैलस्य सारेण सेतुं
विना भूःस्वयं कस्समर्थः कपीन्द्रः ॥ ९॥
निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेन सीतातिशोकापहारी ।
समुद्रान्तरङ्गादि रौद्रं विनिद्रं
विलङ्घ्योरु जङ्घस्तुताऽमर्त्यसङ्घः ॥ १०॥

रमानाथ रामः क्षमानाथ रामः
अशोकेन शोकं विहाय प्रहर्षम् ।
वनान्तर्घनं जीवनं दानवानां
विपाट्य प्रहर्षात् हनूमत् त्वमेव ॥ ११॥

जराभारतो भूरिपीडां शरीरे
निराधारणारूढ गाढ प्रतापे ।
भवत्पादभक्तिं भवद्भक्तिरक्तिं
कुरु श्रीहनूमत्प्रभो मे दयालो ॥ १२॥

महायोगिनो ब्रह्मरुद्रादयो वा
न जानन्ति तत्त्वं निजं राघवस्य ।
कथं ज्ञायते मादृशे नित्यमेव
प्रसीद प्रभो वानरेन्द्रो नमस्ते ॥ १३॥

नमस्ते महासत्त्ववाहाय तुभ्यं
नमस्ते महावज्र देहाय तुभ्यम् ।
नमस्ते परीभूत सूर्याय तुभ्यं
नमस्ते कृतमर्त्य कार्याय तुभ्यम् ॥ १४॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १५॥

॥ फलश्रुतिः ॥
हनुमद्भुजङ्गप्रयातं प्रभाते
प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः ।
पठन्नश्नतोऽपि प्रमुक्ताघजालं
सदा सर्वदा रामभक्तिं प्रियाति ॥ १६॥
!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् सम्पूर्णं

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...