Friday 29 December 2017

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् Amritasanjivani Dhanvantari Stotra

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम् Amritasanjivani Dhanvantari Stotra
नमो नमो विश्वविभावनायनमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय नमो नमो नमो मुक्तिवरप्रदाय ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ २॥
नमो नमस्ते सकलार्त्रिहर्त्रे नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ ३॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४॥
यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५॥
स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६॥
चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ७॥
पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ८॥
धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ९॥
भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १०॥
याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ ११ ॥
क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १२॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १३॥
भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १४॥
वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १५॥
कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक् ।सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय ॥ १६॥
असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय ॥ १८ ॥
अहं न जाने किमपि त्वदन्यत् समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥
त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याहिनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ २०॥
न मेऽपराधं प्रविलोकय प्रभो पराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१॥
अहह विस्मर नाथ न मां सदाकरुणया निजया परिपूरितः ।
भुवि भवाअन् यदि मे न हि रक्षकः कथमहो मम जीवनमत्र वै ॥ २२॥
दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३॥
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि स्वाहा ॥ २४॥
॥ फलश्रुतिः॥
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ २५॥
सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ २६॥
!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

॥ इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥
धन्वन्तरि स्तोत्रम् ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति
सञ्जीवयन्तममितात्मसुखं परेशम् ।
ज्ञानं सुधाकलशमेव च सन्दधानं
शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥

मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं
भ्रूमध्यगाच्च तत एव च तानुसंस्थात् ।
हार्दाच्च नाभिसदनादधरस्थिताच्च
ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥
अज्ञान-दुःख-भय-रोग-महाविषाणि
योगोऽयमाशु विनिहन्ति सुखं च दद्यात् ।
उन्माद-विभ्रमहरः हरतश्च सान्द्र-
मानन्दमेव पदमापयति स्म नित्यम् ॥
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं
एवं स यस्य शिरसि स्वकरं निधाय ।
आवर्तयेन्मनुमिमं स च वीतरोगः
पापादपैति मनसा यदि भक्तिनम्रः ॥
धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥
दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥
पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः ।
नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥
अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः।
स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ।
धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् ।
एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा
धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे ।
धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय
सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥
धन्वन्तरिश्च भगवान् स्वयमास देवो स्वयेमेव कीर्तिः नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवाप चार्धा रवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥
क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् ।
सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥
अच्युतानन्त-गोविन्द-विष्णो नारायणामृत ।
रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥
धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः धं धन्वन्तरये नमः ॥
ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥
इति धन्वन्तरिस्तोत्रं सम्पूर्णम् ।
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557


Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...