Saturday 30 December 2017

सूर्या स्तोत्रम् ..Surya astotra

सूर्या स्तोत्रम् ..Surya astotra
शुकतुण्डच्छवि सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २॥
उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय ।
अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३॥
जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः ।
लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४॥
प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५॥
अपनयतु सकलकलिकृतमलपटलं सप्रतप्तकनकाभः ।
अरविन्दवृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६॥
उदयाद्रिचारुचामरहरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्ते ॥ ७
उदितवति त्वयि विकसति मुकुलीयति समस्तमस्तमितबिम्बे ।
न ह्यन्यस्मिन्दिनकर सकलं कमलायते भवनम् ॥ ८॥
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य ।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९॥
आर्याः साम्बुपुरे सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १०॥
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् ।
तस्य गेहञ्च दीपञ्च पद्मा सत्यं न मुञ्चति ॥ १
निधिरेश दरिद्राणां रोगिणां परमौषधम् ।
सिद्धि सकलकार्याणां गाथेयं संसृता रवेः ॥ १२॥
इति श्रीयाज्ञवल्क्यविरचितं सूर्यार्यास्तोत्रं सम्पूर्णम् ।

श्री सूर्या ष्टोत्तरशतनाम स्तोत्रम् ॥
सूर्य बीज मन्त्र - ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥
अरुणाय शरण्याय करुणारससिन्धवे ।
असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥
आदित्यायाऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥
इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥

ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥

ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥

लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥

लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥

एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥

ओजस्कराय जयिने जगदानन्दहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥

ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥

अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥

अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥

ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च ।
सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥
नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥
ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥
यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा ।
इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥
इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः ।
स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम्
इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
श्री सूर्या ष्टोत्तरशतनाम स्तोत्रम् ॥
वैशम्पायन उवाच ।
शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ १॥
धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने ।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ २॥
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ४॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ५॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ६॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ७॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ८॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । कालाध्यक्षः
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ९॥
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ १०॥
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ ११॥ सर्वभूतनिषेवितः
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ १२॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १३॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ १४॥
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । सूर्यस्यामिततेजसः
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ १५॥ प्रोक्तमेतत्स्व्यम्भुवा
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १६॥
सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ १७॥
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् ।
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ १८॥
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ १९॥
इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे
आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्

नरसिंह पुराणे सूर्या ष्टोत्तरशतनाम स्तोत्रं विश्वकर्मकृत ॥
भरद्वाज उवाच ..यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा ।
तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥
सूत उवाच .तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा ।
सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥
हिरण्यगर्भः कपिलस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥
अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः ।
आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥
हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः ।
अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥
प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः ।
यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥
अमित्रहा शिवो हंसो नायकः प्रियदर्शनः ।
शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥

धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः ।
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥

भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः ।
प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥

आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः ।
विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥

अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः ।
धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥

तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः ।
वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥

ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः ।
महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥
एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना ।
उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥
भ्रमिमारोप्य मामत्र मण्डलं मम शातय ।
त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥
इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज ।
शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥
संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् ।
त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥
वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ ।
इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥
वरदो यदि मे देव वरमेतं प्रयच्छ मे ।
एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २
तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥
तेनैवमुक्तो दिनकृत् तथेति
त्वष्टारमुक्त्वा विरराम भास्करः ।
संज्ञां विशङ्कां रविमण्डलस्थितां
कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥
इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...