Saturday 30 December 2017

सूर्य कवचं त्रैलोक्यमङ्गलं नाम .surya kavacham.

सूर्य कवचं त्रैलोक्यमङ्गलं नाम .surya kavacham.
श्रीसूर्य उवाच ..साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् ।
त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥ १॥
यज्ज्ञात्वा मन्त्रवित्सम्यक् फलं प्राप्नोति निश्चितम् ।
यद्धृत्वा च महादेवो गणानामधिपोभवत् ॥ २॥
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा ।
एवमिन्द्रादयः सर्वे सर्वैश्चर्यमवाप्मुयुः ॥ ३॥
कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः ।
श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥ ४॥
यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः ।
प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥ ५॥
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् ।
अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥ ६॥
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी ।
चन्द्रबिम्बं विंशदाद्यं पातु मे गुह्यदेशकम् ॥ ७॥
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः ।
शिवो वह्निसमायुक्तो वामाक्षीबिन्दुभूषीतः ॥ ८॥
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः ।
गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥ ९॥
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः ।
इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥ १०॥
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमन महाव्याधिविनाशनम् ॥ ११॥
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् ।
बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥ १२॥
ततत्सर्वं भवेत्तस्य कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥ १३॥
ब्रह्मराक्षसवेताला न् द्रष्टुमपि तं क्षमाः ।
दूरादेव पलायन्ते तस्य सङ्कीर्तणादपि ॥ १४॥
भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः ।
रविवारे च सङ्क्रान्त्यां सप्तम्यां च विशेषतः ।
धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियोभवेत् ॥ १५॥
त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे ।
शिखायामथवा कण्ठे सोपि सूर्यो न संशयः ॥ १६॥
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् ।
कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥ १७॥
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ १८॥
इति श्रीब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं सम्पूर्णम् ॥
सूर्यकवचस्तोत्रम्
याज्ञवल्क्य उवाच ..शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ १॥
देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् ।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ २॥
शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ ३॥
घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ ४॥
स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥ ५॥
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ ६॥
सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥ ७॥
इति श्रीमद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ॥
सूर्यनमस्कार मन्त्राः
ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति ।
नारायणः सरसिजासन्संइविष्टः ।
केयूरवान मकरकुण्डलवान किरीटी ।
हारी हिरण्मयवपुधृतशंखचक्रः ॥
ॐ ह्रां मित्राय नमः । ॐ ह्रीं रवये नमः ।ॐ ह्रूं सूर्याय नमः ।ॐ ह्रैं भानवे नमः 
ॐ ह्रौं खगाय नमः ॐ ह्रः पूष्णे नमः । ॐ ह्रां हिरण्यगर्भाय नमः ।
ॐ ह्रीं मरीचये नमः ।ॐ ह्रूं आदित्याय नमः ।ॐ ह्रैं सवित्रे नमः ।
 ॐ ह्रौं अर्काय नमः । ॐ ह्रः भास्कराय नमः ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रःॐ श्रीसवितृसूर्यनारायणाय नमः ॥
आदितस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं दोष नाशते ।
अकालमृत्यु हरणं सर्वव्याधि विनाशनम् ।
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥
योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन ।
योपाकरोत्तं प्रवरं मुनीनां पतंजलिं प्रांजलिरानतोऽस्मि ॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...