Saturday 30 December 2017

सूर्य स्तोत्रम् ..surya stotram..

सूर्य स्तोत्रम् ..surya stotram..
अथ सूर्यस्तोत्रप्रारम्भः ।https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः ।
श्रीसूर्यनारायणो देवता । सूं बीजम् ।
रिं शक्तिः । यं कीलकम् । सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
आदित्याय अङ्गुष्ठाभ्यां नमः । अर्काय तर्जनीभ्यां नमः ।
दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः ।
सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः ।
आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा ।
दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् ।
सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥
ध्यानम् ।
ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ।
आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ २ ॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ३॥

ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ४॥

एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।
सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ५॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।
अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ६॥

कमलासन देवेश कर्मसाक्षिन्नमो नमः ।
धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ७॥

सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।
क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ८॥

सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।
स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ९॥

सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ १०॥
इति सूर्यस्तोत्रं सम्पूर्णम् ।

सूर्य स्तोत्रं श्री याज्ञवल्क्यकृतम् ॥
ॐ श्रीमहागणाधिपतये नमः ॥
ॐ नमो भगवते आदित्यायाखिलजगतां आत्मस्वरूपेण कालस्वरूपेण
चतुर्विधभूत-निकायानां ब्रह्मादिस्तम्भ-पर्यन्तानां
अन्तर्हृदयेषु बहिरपि चाकाश इव उपाधिनाऽव्यवधीयमानो
भवानेक एव क्षणलव-निमेषावयवोपचित-संवत्सरगणेन
अपा-मादान-विसर्गाभ्यां इमां लोकयात्रां अनुवहति ॥ १

यदुह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनं अहरहः
आम्नायविधिना उपतिष्ठमानानां अखिल-दुरित-वृजिनबीजावभर्जन
भगवतः समभिधीमहि तपनमण्डलम् ॥ २

य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन-इन्द्रियासुगणान्
अनात्मनः स्वयमात्मा अन्तर्यामी प्रचोदयति ॥ ३

य एवेमं लोकं अतिकराल-वदनान्धकार-संज्ञा-जगरग्रह-गिलितं
मृतकमिव विचेतनं अवलोक्य अनुकम्पया परमकारुणिकः ईक्षयैव
उत्थाप्य अहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने
प्रवर्तयति अवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥ ४

परित आशापालैः तत्र तत्र कमलकोशाञ्जलिभिः उपहृतार्हणः ॥ ५

अथह भगवन् तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वन्दितं
अहं अयातयामयजुःकामः उपसरामीति ॥ ६

एवं स्तुतः स भगवान् वाजिरूपधरो हरिः ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥ ७
इति श्रीमद्भागवते द्वादशस्कन्धे श्रीयाज्ञवल्क्यकृतं

श्रीसूर्यस्तोत्रं सम्पूर्णम् सूर्यस्तोत्रम् ॥
देवा ऊचुःनमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुःस्वरूपरूपाय साम्नान्धामवते नमः ॥ १॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिःस्वरूपाय विशुद्धायामलात्मने ॥ २॥

वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ३॥

इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ४॥

न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ५॥

नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ६॥

शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७॥

भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ८॥

क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥ ९॥

तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ १०॥

सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥ ११॥

यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ १२॥

मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ १३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायान्तर्गता

सूर्यस्तुतिः समाप्ता ॥
सूर्य स्तुती द्वादशार्या साम्बकृत ॥
अथ श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः ।
उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः ।
हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥ १॥

निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे ।
क्रममाण योजनानां नमोऽस्तुते नलिननाथाय ॥ २॥

कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय ।
द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ ३॥

त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः ।
त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ ४॥

शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् ।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ ५॥

त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः ।
तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु ॥ ६॥

धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।
बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ ७॥

येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ ८॥

यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः ।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ ९॥

तिमिरमिव नेत्रतिमिरं पटलमिवाशेषरोगपटलं नः ।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ १०॥

वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च ।
ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ ११॥

त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः ।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ १२॥

इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम् ।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ १३॥

इति श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः सम्पूर्णा ।
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...