Wednesday 27 December 2017

उच्छिष्ट गणेश स्तवराजः uchchishta ganesha stavarajah

उच्छिष्ट गणेश स्तवराजः uchchishta ganesha stavarajah
श्री गणेशाय नमः

उच्छिष्ट गणेश स्तवराजः uchchishta ganesha stavarajah
श्री गणेशाय नमः देव्युवाच ।..पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २
षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥ ४
भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः ।
गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम् ॥ ५
शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६
पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतूहलेन ।
विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७
लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८
आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९
निरन्तरं संकृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं वै ।
तं श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥ १०
विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११
स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२
स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः ।
प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३
सिञ्चाम नागं शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४
आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥ १५
हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १
द्वैपायनोक्तानि स निश्चयेन स्वदन्तकोट्या निखिलं लिखित्वा ।
दन्तं पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥ १७
क्रीडातटान्ते जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८
वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९
इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः ।
संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०
।Astrologer Gyanchand Bundiwal M. 0 8275555557.
इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे
उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥
श्री उच्छिष्ट महागणपति ध्यानम् shri uchchishtamahaganapati dhyAnam
मूलाधारे सुयोन्याख्ये चिदग्निवरमण्डले
समासीनं पराशक्तिविग्रहं गणनायकम् ॥ १
रक्तोत्पलसमप्रख्यं नीलमेघसमप्रभम् ।
रत्नप्रभालसद्दीप्तमुकुटाञ्चितमस्तकम् ॥ २
करुणारससुधाधारास्रवदक्षित्रयान्वितम् ।
अक्षिकुक्षिमहावक्षः गण्डशूकादिभूषणम् ॥ ३
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करम् ।
नीलकान्तिघनीभूतनीलवाणीसुपार्श्वकम् ॥ ४
सुत्रिकोणाख्यनीलाङ्गरसास्वादनतत्परम् ।
पत्न्यालिङ्गतवामाङ्गं सप्तमातृनिषेवितम् ॥ ५
ब्रह्मविष्णुमहेन्द्रादिसम्प्रपूजितपादुकम् ।
महद्द्वयपदोवाच्यपादुकामन्त्रसारकम् ॥ ६
नवावरणयज्ञाख्य वरिवस्याविधिप्रियम् ।
पञ्चावरणयज्ञाख्य विधिसम्पूज्यपादुकम् ॥ ७
अखण्डकोटिब्रह्माण्डामण्डलेश्वरमव्ययम् ।
रदनाक्षरसम्पूर्णमन्त्रराजस्वरूपिणम् ॥ ८
गिरिव्याहृतिवर्णात्ममन्त्रतत्वप्रदर्शकम् ।
अरुणारुणतनुच्छायमहाकामकलात्मकम् ॥ ९
महागोप्यमहाविद्या प्रकाशितकलेबरम् ।
चिच्छिवं चिद्भवं शान्तं त्रिगुणादिविवर्जितम् ॥ १०
अष्टोत्तरशताभिख्यकलान्यासविधिप्रियम् ।
चिदाकारमहाद्वीपमध्यवाससुविग्रहम् ॥ ११
चिदब्धिमथनोत्पन्नचित्सारघनविग्रहम् ।
वाचामगोचरं शान्तं शुद्धचैतन्यरूपिणम् ॥ १२
मूलकन्दस्थचिद्देशनवताण्डवपण्डितम् ।
षडम्बुरुहसंस्थायिपरचिव्द्योमभासुरम् ॥ १३
अकारादिक्षकारान्तवर्णलक्षितचित्सुखम् ।
अकाराक्षरनिर्दिष्टप्रकाशमयविग्रहम् ॥ १४
हकाराख्यविमर्शात्मप्रभादीप्तजगत्त्रयम् ।
महाहंसजपध्यानविधिज्ञातस्वरूपकम् ॥ १५
सदोदितमहाप्रज्ञाकारं संसारतारकम् ।
मोक्षलक्ष्मीप्रदातारं कालातीतमहाप्रभुम् ॥ १६
नामरूपादिसम्भिन्ननित्यपूर्णचिदुत्तमम् ।
प्रत्यग्भूतमहाप्रज्ञागात्रगोचरविग्रहम् ॥ १७
महाकुण्डलिनीरूपं षट्च्क्रनगरेश्वरम् ।
अप्राकृतमहादिव्यचैतन्यात्मस्वरूपिणम् ॥ १८
नादबिन्दुकलातीतं कार्यकारणवर्जितम् ।
षडम्बुरुहचक्रान्तः स्फुरत्सौदामिनीप्रभम् ॥ १९
तत्त्वमस्यादिवाक्यार्थपरिबोधनपण्डितम् ।
ब्रह्मादिकीटपर्यन्तव्याप्तसंवित्सुधारसम् ॥ २०
इच्छाज्ञानक्रियानन्दसर्वतन्त्र स्वतन्त्रिणम् ।
हृदयग्रन्थिभिद्विद्यादर्शनोत्सुकमानसम् ॥ २१
पञ्चकृत्यपरेशानं महात्रैपुरविग्रहम् ।
श्रीचक्रराजमध्यस्थशून्यग्राममहेश्वरम् ॥ २२
ब्रह्मविद्यास्वरूपश्रीललितारूपधारिणम् ।
वशिन्याद्यावृतं साध्यं अद्वयानन्दवर्धनम् ॥ २३
आदिशङ्कररूपेशदक्षिणामूर्तिपूजितम् ।
असंस्पृष्टमहाप्रज्ञाभिख्याद्वैतस्थितिप्रभम् ॥ २४
एवं सञ्चितयेद्देवं उच्छिष्टगणनायकम् ।
नीलतारासमेतं तु सच्चिदानन्दविग्रहम् ॥ २५
।Astrologer Gyanchand Bundiwal M. 0 8275555557.

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...