Tuesday, 7 May 2013

नृसिंहसह स्रनामस्तोत्रम् ॥ दिव्य लक्ष्मी नृसिंह सहस्रनामस्तोत्रम्

नृसिंहसह स्रनामस्तोत्रम् ॥ दिव्य लक्ष्मी नृसिंह सहस्रनामस्तोत्रम्
॥ स्तोत्रस्य पूर्वपीठिका ॥
ॐ मार्कण्डेय उवाच -
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १॥
दैत्यकोटिहतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २॥
भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३॥
द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येन्द्रसाहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४॥

श्रेयः कस्य भवेदत्र इति चिन्तापराभवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५॥

विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६॥

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादिबहून्यस्त्राण्यभक्षयत कोपनः ॥ ७॥

सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्यभैरवः ।
ततः खट्गधरं दैत्यं जग्राह नरकेसरी ॥ ८॥

हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९॥

मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १०॥

देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंह मतीवोग्रं विकीर्णवदनं भृशम् ॥ ११॥

लेलिहानं च गर्जन्तं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२॥

महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३॥

आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४॥



॥ अथ श्रीनृसिंहसहस्रनामस्तोत्रम् ॥

ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रमहामन्त्रस्य
ब्रह्मा ऋषिः श्रीलक्ष्मीनृसिंहोदेवता । अनुष्टुप्छन्दः
श्रीनृसिंहःपरमात्मा बीजं लक्ष्मीर्मायाशक्तिः जीवोबीजं
बुद्धिः शक्तिः उदानवायुः बीजं सरस्वती शक्तिः व्यञ्जनानि
बीजानि स्वराः शक्तयः ॐ क्ष्रौं ह्रीं इति बीजानि ॐ श्रीं
अं आं इति शक्तयः विकीर्णनखदंष्ट्रायुधायेति कीलकं
अकारादिति बोधकं श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे
श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रमन्त्रजपे विनियोगः -
ब्रह्मोवाच -ॐ श्रीलक्ष्मीनृसिंहाय नमः । अङ्गुष्ठाभ्यां नमः
ॐ वज्रनखाय नमः । तर्जनीभ्यां नमः
ॐ महारुद्राय नमः । मध्यमाभ्यां नमः
ॐ सर्वतोमुखाय नमः । अनामिकाभ्यां नमः
ॐ विकटास्याय नमः । कनिष्ठिकाभ्यां नमः
ॐ वीराय नमः । करतलकरपृष्ठाभ्यां नमः
एवं हृदयादिन्यासः - इति दिग्बन्धः
ॐ ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ नैऋतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।

अथ ध्यानम् -
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकस्नाभयकरान्बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २॥
ब्रह्मोवाच -ॐ ह्रीं श्रीं ऐं क्ष्रौं
ब्रह्मोवाच -ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १॥
वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३॥
परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८॥
नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९॥
शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १०॥
निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११॥
निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५॥

कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७॥

प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्वलाय च ॥ १८॥

ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९॥

कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २०॥

अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१॥

सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२॥

अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोराघोरतराय च ॥ २३॥

नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४॥

अमोघाय गुणौघाय अनघायाघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५॥

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६॥

व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७॥

विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३०॥

वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१॥

चिदम्बराय वित्ताय विश्रुताय वियोनये ।
विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तडित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३॥

तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४॥

तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५॥

शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३७॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३८॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ३९॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४०॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१॥

कलाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२॥

शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३॥

भूतपालाय भूताय भूतवासाय भूतिने ।
भूतबेतालघाताय भूताधिपतये नमः ॥ ४४॥

भूतग्रहविनाशाय भूतसंयमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५॥

सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४६॥

सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८॥

सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ४९॥

बहुशृङ्गाय लिङ्गाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५०॥

महादेवाय देवाय मातुलिङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१॥

अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५२॥

मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवार्याय ते नमः ॥ ५३॥

चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५४॥

महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥ ५५॥

महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५६॥

विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७॥

अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८॥

कण्ठीरवाय लुण्ठाय निःशठाय हठाय च ।
सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ५९॥

ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६०॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१॥

अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६२॥

अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३॥

नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६४॥

अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५॥

गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६॥

पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९॥

ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७०॥

परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७१॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२॥

लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३॥

लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४॥

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥ ७५॥

सर्वतः पाणिपादोरं सर्वतोऽक्षि शिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७७॥

महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ ७८॥

आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९॥

नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह ।
नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥ ८०॥

नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायण पुच्छसिंह ।
नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह ॥ ८१॥

नमो नमो भीषणभद्रसिंह नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥ ८२॥

नमो नमो निर्जितकालसिंह नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥ ८३॥

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ८४॥

अमी हित्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५॥

रुद्रादित्यावसवो ये च साध्या विश्वेदेवा मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥ ८६॥

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्रजिष्णुर्जिष्णुरेव च ।
पृथिवीमन्तरीक्षं त्वं पर्वतारण्यमेव च ॥ ८८॥

कलाकाष्ठा विलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥ ८९॥

युगादिर्युगभेदस्त्वं संयुगो युगसन्धयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९०॥

करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१॥

प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ९२॥

ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः ।
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९३॥

हन्तकारो निराकारो वेगकारश्च शङ्करः ।
अकारादिहकारान्त ओङ्कारो लोककारकः ॥ ९४॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९५॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७॥

अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९॥

नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १००॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ १०१॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३॥

दामोदराय दान्ताय दानवान्तकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४॥

सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०५॥

असिधर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६॥

सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ १०७॥

कवये पद्मगर्भाय भूतगर्भघृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११०॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृङ्गाय निःशृङ्गाय शृङ्गिणे ॥ १११॥

भैरवाय सुकेशाय भीषणायान्त्रिमालिने ।
चण्डाय रुण्डमालाय नमो दण्डधराय च ॥ ११२॥

अखण्डतत्त्वरूपाय कमण्डलुधराय च ।
नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४॥

नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥ ११६॥

कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः ।
अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७॥

नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८॥

नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ ११९॥

सप्तलोकान्तरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२०॥

सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय च ते नमः ॥ १२१॥

श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ १२२॥

शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ १२३॥

सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४॥

सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
साङ्ख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५॥

नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये ।
खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६॥

नागकेयूरहाराय नागेन्द्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ १२७॥

नागेश्वराय नागाय नमिताय नराय च ।
नागान्तकरथायैव नरनारायणाय च ॥ १२८॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय नमो नमः ॥ १२९॥

विक्रमाक्रान्तलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणान्तकराय च ॥ १३०॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३॥

शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४॥

योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६॥

रक्तमालाविभूषाय रक्तगन्धानुलेपिने ।
धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७॥

दुर्मदाय दुरन्ताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४०॥

पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ १४१॥

ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२॥

गदापद्मधरायैव पञ्चबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ १४३॥

नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४॥

नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५॥

कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ १४६॥

मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्नाय नमस्ते जातवेदसे ॥ १४७॥

जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥ १४८॥

जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ १४९॥

जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५०॥

इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च ।
अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१॥

ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२॥

व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३॥

सुकुमाराय रामाय शिशुचाराय ते नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४॥

ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५॥

चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६॥

धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७॥

प्रबोधाय सुबोधाय नमो बुधिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८॥

प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९॥

श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६०॥

उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१॥

दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ १६२॥

उग्रश्रवाय शान्ताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३॥

नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४॥

नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ १६५॥

अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६॥

धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७॥

नमो नमस्ते दयासिंहरूप नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८॥
उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६९॥

अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शङ्किताः सर्वादेवतास्त्वामुपागताः ॥ १७०॥

एतान्पश्य महेशानं व्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१॥

सर्वान् ऋषिगणान्सप्तमातृगौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणान्यपि ॥ १७२॥

प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३॥

इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४॥

मार्कण्डेय उवाच-
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५॥

अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान्सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६॥

श्रीनृसिंह उवाच-
भो भो देववराः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ १७७॥

यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् ।
एवं नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७८॥

शृणोति वा श्रावयति पूजां ते भक्तिसंयुतः ।
सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम ॥ १८०॥।

सर्व पूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१॥

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२॥

भूतभेतालकूष्माण्ड पिशाचव्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३॥

दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः ।
ये च सन्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिकाः ॥ १८४॥

निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ १८५॥

ऐकाहिकं द्व्याहिकं चातुर्धिकमधज्वरम् ।
आधये व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६॥

शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात्सुराः ।
राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७॥

जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् ।
विषा अप्यमृता यान्ति नृसिंहस्मरणात्सुराः ॥ १८८॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९०॥

सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१॥

जलसन्तरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ १९२॥

कलिप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३॥

मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९४॥

असत्यस्तु तेथा यज्ञ निन्दको लोकनिन्दकः ।
स्मृत्वा सकृन्नृसिंह तु मुच्यते सर्वकिल्बषैः ॥ १९५॥

बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६॥

गच्छन् तिष्ठन् श्वपन्भुञ्जन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९७॥

पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ १९८॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति ।
न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी भवेद्विजः ॥ १९९॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २००॥

मार्कण्डेय उवाच -
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्ग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१॥

श्रीशैलस्य प्रदासे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ २०२॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोलं ययौ स्वयम् ॥ २०३॥

हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४॥

नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५॥

धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६॥

पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८॥

यस्य स्तोत्रस्य पाठा द्विशुद्ध मनसोभवन् ।
सनत्कुमारः सम्प्राप्तौ भारद्वाजा महामतिः ॥ २०९॥

तस्मादाङ्गिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जैगीषव्याय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २१०॥

तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः ।
क्रतुञ्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११॥

विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ।
क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२॥

सिंह तेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ।
उपदिष्टोस्मि तेनाहमिदं नामसहस्रकम् ॥ २१३॥

तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ।
मया च कथितं नारसिंहस्तोत्रमिदं तव ॥ २१४॥

त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ।
सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ॥ २१५॥

पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ।
प्राप्यसे महतीं सिद्धिं सर्वान्कामान्वरोत्तमान् ॥ २१६॥

अयमेव परोधर्मस्त्विदमेव परं तपः ।
इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥ २१७॥

अयमेव सदाचारस्त्वयमेव सदा मखः ।
इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८॥

नृसिंहमन्त्रादन्यच्च वैदिकं तु न विद्यते ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ २१९॥

कथितं ते नृसिंहस्य चरितं पापनाशनम् ।
सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२०॥

सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२१॥


इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे सर्वार्थ साधनं दिव्यं

श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रं सम्पूर्णम् ॥





केदारनाथ ज्योतिर्लिंग की जय

श्री केदारनाथ शिवजी की आरती
No automatic alt text available.
जय केदार उदार शंकर, भव भयंकर दु:ख हरम्।
गौरी, गणपति, स्कन्द, नन्दी, श्री केदार नमाम्यहम्॥ जय...
शैल सुन्दर अति हिमालय, शुभ्र मन्दिर सुन्दरम्।
निकट मंदाकिनी सरस्वती, जय केदार नमाम्यहम्॥ जय...
उदक कुण्ड है अधम पावन, रेतस कुण्ड मनोहरम्।
हंस कुंड समीप सुन्दर, जै केदार नमाम्यहम्॥ जय...
अन्नपूर्णा सह अपर्णा, काल भैरव शोभितम्।
पांच पांडव द्रोपदी सह, जय केदार नमाम्हयम्॥ जय...
शिव दिगम्बर भस्मधारी, अर्द्ध चन्द्र विभूषितम।
शीश गंगा कंठ फणिपति, जै केदार नमाम्यहम्॥ जय...
कर त्रिशूल विशाल डमरू, ज्ञान गान विशारदम्।
रत्न परामर्श 08275555557,,ज्ञानचंद बूंदीवाल
मध्य महेश्वर तुंग ईश्वर, रुद्र कल्प महेश्वरम्॥ जय...
पंच धन्य विशाल आलय, जै केदार नमाम्यहम्।
नाथ पावन हे विशालम्, पुण्यप्रद हर दर्शनम्॥ जय...
जय केदार उदार शंकर, पाप ताप नमाम्यहम्॥
जय श्री केदारनाथ की जय जय श्री केदारनाथ की जय जय श्री केदारनाथ की जय
केदारनाथ ज्योतिर्लिंग की जय ,,केदारनाथ ज्योतिर्लिंग की जय
देश के सबसे उत्तरी हिस्से और हिमालय की दुर्गम पर्वत श्रृंखलाओं पर स्थित इस शिवलिंग के दर्शन के लिए हर साल लाखों श्रद्धालु उमड़ते हैं। पौराणिक कथा के अनुसार महाभारत की लड़ाई में अपने ही परिजनों का वध करने से दुखी पांडव पश्चाताप करते हुए शिव के दर्शन के लिए यहां आए थे। शिव यहां नंदी रूप में मौजूद थे, मगर पांडवों के पहुंचने के पहले ही वे धरती में समा गए और यहां रह गया केवल नंदी का कूबड़। भक्तगण आज भी शिव के इसी रूप की यहां उपासना करते हैं। इसके साथ ही तुंगनाथ में शिव की भुजाओं, रूद्रनाथ में मुख, मढ़ माहेश्वर में नाभि और कल्पेश्वर में जटाओं की पूजा की जाती है। इन पांचों तीर्थ स्थानों को एक साथ पंच केदार के नाम से भी जाना जाता है।

बांसुरी घर में रखनी चाहिए

बांसुरी घर में रखनी चाहिए
घर में सुख-समृद्धि बनी रहे इसके लिए सभी कई प्रकार के उपाय करते हैं। कुछ उपाय धर्म से संबंधित होते हैं तो कुछ ज्योतिष के और कुछ वास्तु से संबंधित। इन सभी उपायों को अपनाने से संभवत: घर से नेगेटिव ऊर्जा दूर हो जाती है। यदि आपके घर में कुछ नेगेटिव हो रहा है तो यह परंपरागत उपाय अपनाएं।
पुराने समय से ही घर में सुख-समृद्धि और धन की पूर्ति बनाए रखने के लिए एक सटीक परंपरागत उपाय अपनाया जाता रहा है। यह उपाय है घर में बांसूरी रखना। जिस घर में बांसुरी रखी होती है वहां के लोगों में परस्पर तो बना रहता है साथ ही श्रीकृष्ण की कृपा से सभी दुख और पैसों की तंगी भी दूर हो जाती है।
शास्त्रों के अनुसार बांसुरी भगवान श्रीकृष्ण को अतिप्रिय है। वे सदा ही इसे अपने साथ ही रखते हैं। इसी वजह से इसे बहुत ही पवित्र और पूजनीय माना जाता है। साथ ही ऐसा माना जाता है कि भगवान श्रीकृष्ण जब भी बांसुरी बजाते तो सभी गोपियां प्रेम वश प्रभु के समक्ष जा पहुंचती थीं। बांसुरी से निकलने वाला स्वर प्रेम बरसाने वाला ही है। इसी वजह से जिस घर में बांसुरी रखी होती है वहां प्रेम और धन की कोई कमी नहीं रहती है।
सामान्यत: घर में बांस की हुई बांसुरी ही रखना चाहिए। वास्तु के अनुसार इस बांसूरी से घर के वातावरण में मौजूद समस्त नेगेटिव एनर्जी समाप्त हो जाती है और सकारात्मक ऊर्जा सक्रिय हो जाती है। परिवार के सदस्यों के विचार सकारात्मक होते हैं जिससे उन्हें सभी कार्यों में सफलता प्राप्त होती है।,,

पूजा बिना दीपक के पूर्ण नहीं होती

पूजा बिना दीपक के पूर्ण नहीं होती ,,दीपक, अग्नि, विधुत और सूर्य का अंश है, जो ऊर्जा, ऊष्मा ओर उजाले का स्रोत है। पूजा में भी दीपक का विशेष स्थान होता है, पूजा बिना दीपक के पूर्ण नहीं होती॥ शुभं करोतु कल्याणं आरोग्यं धनसंपदा । शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोस्तु ते ।।
दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः । दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तु ते ।।
" हे दीपज्योति , आप हमारा शुभ करने वाली, कल्याण करने वाली, हमे आरोग्य और धनसंपदा देने वाली, शत्रु की बुद्धि का नाश करने वाली है। दीपज्योति, आपको नमस्कार, हे दीपज्योति, आप परब्रह्म है, जनार्दन है, आप हमारे पापों का नाश करती हो, आपको नमस्कार है ॥ "
दीपक जहाँ प्रकाशित है, वहाँ अंधेरा चला जाता है । जहाँ दीपक है वहाँ सुमति है, मांगल्य है, आरोग्य है, धन-संपदा है सर्वदा शुभ ही शुभ है वहाँ॥ दीपक को कभी फुँक से न बुझाये॥,,

हनुमते नमः राम जी चले ना हनुमान के बिना। ॐ श्री हनुमते नमः

राम जी चले ना हनुमान के बिना। दुनिया चले ना श्री राम के बिना,राम जी चले ना हनुमान के बिना। जब से रामायण पढ़ ली है, एक बात मैंने समझ ली है, रावन मरे नी श्री राम के बिना, लंका जले ना हनुमान के बिना॥
लक्षण का बचना मुश्किल था, कौन बूटी लाने के काबिल था,लक्षण बचे ना श्री राम के बिना, बूटी मिले ना हनुमान के बिना॥सीता हरण की कहानी सुनो, बनवारी मेरी जुबानी सुनो,वापिस मिला ना श्री राम के बिना, पता चले ना हनुमान के बिना॥बैठे सिंघासन पे श्री राम जी, चरणों में बैठे हैं हनुमान जी,मुक्ति मिला ना श्री राम के बिना, भक्ति मिले ना हनुमान के बिना॥,,

Photo: राम जी चले ना हनुमान के बिना। दुनिया चले ना श्री राम के बिना,राम जी चले ना हनुमान के बिना। जब से रामायण पढ़ ली है, एक बात मैंने समझ ली है, रावन मरे नी श्री राम के बिना, लंका जले ना हनुमान के बिना॥
लक्षण का बचना मुश्किल था, कौन बूटी लाने के काबिल था,लक्षण बचे ना श्री राम के बिना, बूटी मिले ना हनुमान के बिना॥सीता हरण की कहानी सुनो, बनवारी मेरी जुबानी सुनो,वापिस मिला ना श्री राम के बिना, पता चले ना हनुमान के बिना॥बैठे सिंघासन पे श्री राम जी, चरणों में बैठे हैं हनुमान जी,मुक्ति मिला ना श्री राम के बिना, भक्ति मिले ना हनुमान के बिना॥,,

ॐ भूर्भुवः स्वः गायत्री मन्त्र विभिन्न देवी देवताओं के लिये


गायत्री मन्त्र विभिन्न देवी देवताओं के लिये 
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
ॐ त्वरिता देव्यै च विद्महे महानित्यायै धीमहि, तन्नो देवी प्रचोदयात!
ॐ महिषमर्द्दियै च दुर्गायै च धीमहि, तन्नो देवी प्रचोदयात!
ॐ मातं गये मतंग्ये [यै] च उच्छिष्ट चाण्डाल्यै च धीमहि, तन्नो देवी प्रचोदयात!
ॐ बागला मुख्यं च विद्महे स्तंभिन्यै च धीमहि, तन्नो देवी प्रचोदयात!
ॐ धूमावत्यै च विद्महे संहारिन्यै च धीमहि, तन्नो धूमा प्रचोदयात !
ॐ वैरोचन्यै च विद्महे छिन्नमस्तायै धीमहि, तन्नो देवी प्रचोदयात!
ॐ त्रिपुरायै च विद्महे भैरव्यै च धीमहि, तन्नो देवी प्रचोदयात!
ॐ नारायन्यै च भुवनेश्वर्यै धीमहि, तन्नो देवी प्रचोदयात!
ॐ त्रिपुरा दैव्यै विद्महे क्लीं कामेश्वर्यै धीमहि, तन्नो देवी प्रचोदयात!
ॐ तारायै च विद्महे महोग्रायै च धीमहि, सौस्तन्न: क्लिन्नै प्रचिदयात!
ॐ कालिकायै च विद्महे श्मशान वासिन्यै धीमहि, तन्नो अगोरा प्रचोदयात!
ॐ भगवत्यै च विद्महे माहेश्वर्यै च धीमहि, तन्नो अन्नपूर्णा प्रचोदयात!
ॐ परमहंसाय विद्महे महातत्त्वाय धीमहि, तन्नो हंस: प्रचोदयात!
ॐ वेदात्मने च विद्महे हिरण्य गर्भाय धीमहि, तन्नो ब्रह्मा प्रचोदयात!
ॐ ऐं वाग्देव्यै च विद्महे कामराजाय धीमहि, तन्नो देवी प्रचोदयात!
ॐ श्री विष्णवे च विद्महे वासुदेवाय धीमहि, तन्नो विष्णु: प्रचोदयात!
ॐ त्रैलोक्य मोहनाय विद्महे आत्मारामाय धीमहि, तन्नो विष्णु: प्रचोदयात!
ॐ महादेव्यै च विद्महे विष्णु पत्न्ये [यै] च धीमहि, तन्नो लक्ष्मी: प्रचोदयात!
ॐ नारायण: विद्महे वासुदेवाय धीमहि, तन्नो नारायण: प्रचोदयात!
ॐ दाशरथये विद्महे सीतावल्लभाय धीमहि, तन्नो राम: प्रचोदयात!
ॐ जनकजायै विद्महे राम प्रियायै धीमहि, तन्नो सीता प्रचोदयात!
ॐ दासरथये विद्महे अलाबेलाय धीमहि, तन्नो लक्ष्मण प्रचोदयात!
ॐ अन्जनीजाय विद्महे वायु पुत्राय धीमहि, तन्नो हनुमान प्रचोदयात!
ॐ तत्पुरुषाय विद्महे सुवर्ण वरणाय धीमहि, तन्नो गरुड़: प्रचोदयात!
ॐ देवकी नन्दनाय विद्महे वासुदेवाय धीमहि, तन्नो कृष्ण: प्रचोदयात !
ॐ गोपालाय विद्महे गोपीजन वल्लभाय धीमहि, तन्नो गोपाल: प्रचोदयात!
ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि, तन्नो राधिका प्रचोदयात!
ॐ जामदग्न्याय विद्महे महावीराय धीमहि, तन्नो परशुराम प्रचोदयात!
ॐ उग्र नृसिंहाय विद्महे वज्रनखाय धिअमी, तन्नो नृसिंह: प्रचोदयात!
ॐ महादेवाय विद्महे रूद्र मूर्तये धीमहि, तन्नो शिव: पचोदयात!
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि, तन्नो रूद्र: प्रचोदयात!
ॐ सुभगार्यै च विद्महे काम मालायै धीमहि, तन्नो गौरी प्रचोदयात!
ॐ तत्पुरुषाय विद्महे वक्र तुन्डाय धिअमी, तन्नो दन्ति प्रचोदयात!
ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि, तन्नो षन्मुख: प्रचोदयात!
ॐ तत्पुरुषाय विद्महे वक्र तुन्डाय धीमहि, तन्नो नन्दी: प्रचोदयात!
ॐ भास्कराय विद्महे महातेजाय धीमहि, तन्नो सूर्य: प्रचोदयात!
ॐ क्षीर पुत्राय विद्महे अमृत तत्वाय धीमहि, सन्नो चन्द्र: प्रचोदयात!
ॐ अंगारकाय विद्महे शक्ति: हस्तात धीमहि, तन्नो भौम: प्रचोदयात!
ॐ पृथ्वी देव्यै च विद्महे सह्त्र मूर्त्ये च धीमहि, तन्नो मही प्रचोदयात!
ॐ महाज्वालाय विद्महे अग्नि मध्ये धीमहि, तन्नो अग्नि प्रचोदयात!
ॐ जलबिंबाय विद्महे नील पुरुषाय धीमहि, तन्नो अम्बु: प्रकोदयात!
ॐ आकाशाय च विद्महे नभो देवाय धीमहि, तन्नो गगनं प्रचोदयात!
ॐ पवन पुरुषाय विद्महे सहस्त्र मूर्त्ये च धीमहि, तन्नो वायु: प्रचोदयात!
ॐ तत्पुरुषाय विद्महे सहत्राक्षाय धीमहि, तन्नो इंद्र: प्रचोदयात!
ॐ मन्मथेशाय विद्महे काम देवाय धीमहि, तन्नो अनंग प्रचोदयात!
ॐ गुरु देवाय विद्महे पर ब्रह्माय धीमहि, तन्नो गुरु: प्रचोदयात!
ॐ त्रिपुराय विद्महे तुलसीपत्राय धीमहि, तन्नो तुलसी प्रचोदयात!
ॐ देव्यै विद्महे महाशक्त्यै च धीमहि, तन्नो देवी प्रचोदयात!
ॐ सर्व सम्मोहिन्यै विद्महे विश्वनन्यै धीमहि, शक्ति प्रचोदयात!,,

'Astrologer Gyanchand Bundiwal M. 0 8275555557.
प्राचीन भारतीय तन्त्र की कुछ पुस्तकों में गायत्री की महत्ता का उल्लेख है, लिखा है कि १०८ या १० बार के गायत्री जाप से महा पातकी व्यक्ति भी मुक्ति पा जाता है।यहाँ जो जप संख्या १०८ या १० बार गायत्री जप निर्दिष्ट किया गया है, वह शक्ताशक्त के लिये समझना चाहिये।

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...