Friday, 22 September 2017

श्री राजराजेश्वरी चूर्णिका

श्री राजराजेश्वरी चूर्णिका
श्रीमत् कमलापुर कनकधराधरवर निरुपम परम पावन
मनोहर प्रान्ते, सरसिजभवोपम
विश्वंभरामरवर्गगनिग्गलत्ससंभ्रम गुंभानुगुंभ निरन्तर
पठ्यमान निखिल निगमागम शास्त्र पुराणेतिहास कथानिर्मल
निनादसमाक्रान्ते ॥ १॥
तत्र प्रवर्द्धित
मन्दार-मयूर-खर्जुर-कोविदार-जंबीर-जंबू-
निंब-कदंबोदुंबर-साल-रसाल-तमाल-तक्कोल-हिन्ताल-
नाळिकेर-कदली-क्रमुक-मातुलुंग-नारंग-लवंग-बादरी-
चंपकाशोक-पुन्नागागरुचन्दन-कुरुवक-मरुवक-वेलद्राक्षा-
मल्लिका-मालती-माधवीलता-शोभायमान-पुष्पितफलित-ललित
विविध वनतरुवाटिका मध्यप्रदेशे ॥ २॥
शुकपिकशारिका निकरमयूर चकोर चक्रवाक
भरद्वाज-पिंगल-टिट्टिभ-गरुढ-विहगकुलायन कोलाहलारव
परिपूरिताशे, तत्र सुधारसोपम-पानीयकासार स्फुटकलित
कुमुदेन्दीवरषण्ड-सञ्चरन्मराल चक्रवाक कारण्डव प्रमुख
जलाण्डजमण्डली शोभायमाने, नन्दनवन कृतबहुमाने ॥ ३॥
चारुचामीकर प्राकारगोपुर वलयिते, सुलळिते,
सुस्निग्धविराजित वज्रस्तंभ सहस्रपत्मरागपलफलक
जातरूपन्त्रतन निर्मित प्रथममण्तप-
द्वीतीयमण्टपान्तराळमण्टप मूलमहामण्टपस्थाने,
शिल्पिशास्त्रप्रधाने,
कलितवज्रवैढूर्य-माणिक्य-गोमेतक-पुष्पराग-
पत्मराग-मरकत-नील-मुक्ता-प्रवाळाख्य
नवरत्नतेजोविराजित बिन्दुत्रिकोण षट्कोणवसुकोण श्रीचक्रस्वरूप
भद्रसिंहासनासीने, देवताप्रधाने ॥ ४॥
चरणांगुळिनखमुखरुचिनिचय पराभ्रततारके, श्रिमन्माणिक्य
मंजीरमण्डित श्रीपदांबुजद्वये, मीनकेतनमणि
तुणीरविलासविजयिजंघायुगळे, कनकरंभास्तंभितोरुद्वये,
कन्दर्पस्वर्णस्यन्दनपटुतर शकटसन्निभनितंब बिंबे ॥ ५॥
दिनकरोदयार्धविकसितारविन्दनाभिप्रदेशे,
रोमराजीविराजितवळित्रये, भासुरकरभोदरे,
जंभासुररिपुकुंभिकुंभसमुज्ज्यंभित शातकुंभकुंभायमान
संभावितपयोधरद्वये, अद्वये, गोवित कुशकलश
कक्षद्वयारुणित सूर्य पट्टाभिधानमुक्तामणिप्रोत
कञ्चुकविराजमाने, कोमळतरकल्पवल्लीसमान
पाशाङ्कुशवराभय मुद्रामुद्रितत्सन्त्सणत्कार विराजित
चतुर्भुजे ॥ ६॥
त्रैलोक्यजैत्रयात्रागमनसुरवरकर बधमंगळसूत्र
त्रिमेखाशोभितकण्डरे, नवप्रवालवल्लवपक्वबिंबफलाधरे,
निरन्तरकर्पूरतांबूलच्यर्वणारुणितरदनपङ्क्तिद्वये,
चन्पकप्रसूनतिलपुष्पसमान
नासापुटाग्रोदञ्चितमौक्तिकाभरणे,
कर्णावतंसीकृतेन्दिवरविराजितकपोलभागे,
अरविन्ददळदीर्घलोचने ॥ ७॥
कुसुमशरकोडन्दलेखालङ्कारि मनोहारिभृलतायुगळे,
सुलळिताष्टमीचन्द्रलावण्यललाटफलके, कस्तूरिकातिलके,
हरिन्मणिद्विरेफावलि प्रकाशकेशपाशे, कनकांगदहारकेयूर
नानाविधायुध स्थिरीभृतसौदामिनी
तुलितलळितन्त्रतनतन्त्रलते ॥ ८॥
काश्यपात्रि
भरद्वाजव्यासपराशर-मार्कण्डेय-विश्वामित्र-
कण्वकपिलगर्गपुलस्त्यागस्त्यादि
सकलमुनिमनोध्यब्रह्म तेजोमये, चिन्मये ॥ ९॥
सेवार्थागतांग-वंग-कलिंग-कांभोज-सौवीर-सौराष्ट्र-
महारष्ट्र-मागध-निषध-चोल-चेर-पाण्ड्य-पाञ्चाल-द्रविड-
द्राविड-घोट-लाट-वराट-कर्णाटकास्ड्र-भोज-कुरु-गान्धार-
विदर्भ-विज्रुंभ-बाह्लीक-बर्बर-केरळ-कैकय-कोसल-शूरसेन-
च्यवन-टङ्कण-कोङ्कण-मत्स्य-माध्व-सैन्धव-काशी-भद्राशी-
ऐन्द्रांशी-उत्तरगिरि-षट्पञ्चाशत्-देशादीशादि-गन्धर्व
हेषारवहीत्कारवरथांगक्रैम्कारभेरी-झंकार मदुळ
ध्वनिहुंकारयुक्त चतुरंगसमेत जितसुरराजाधिराज
पुंखानुपुंखगमनागमन विशीर्णाभरणाद्ययुत पाटली
वालुकायमान प्रथम मण्टप सन्निधाने ॥ १०॥
तत्तत् पूजजाल
क्रियमानार्घ्य-पाद्याचमनीय-स्नान-वस्त्राभरण-
जलगन्ध-पुष्पाक्षत-धूपदीप-नैवेद्यताम्बूल-
प्रदक्षिणनमस्कार-स्तोत्रस्वान्त
सन्तोषितवरप्रदानशीले, श्रीबाले ॥ ११॥
रम्भोर्वशीमेनका-तिलोत्तमा-हरिणी-घृताची
मञ्जूघोष-अलंबुसाद्युताफ्सरस्त्री-धिमिन्धिमित
चित्रोपमित्र नर्तनोल्लासावलोकनद्वये, कृत्तिवासःप्रिये,
बण्डासुर-प्रेरिताखण्डदोर्दुण्ड रक्षोमण्डली खण्डने ॥ १२॥
निजरांगुळीयकादि मत्स्य-कूर्म-वराहादि नारायण
दशावतारे, हिमवत्कुलाचलराजकन्ये, सर्वलोकमान्ये ॥ १३॥
श्री विद्याधीशरचित चूर्णिकश्रवणपठनानन्दिनां
सम्प्रार्थितायुरारोग्यसौन्दर्य विद्याबुद्धि पुत्रपौत्र
कळत्रैश्वर्यादि सकलसौख्यप्रदे ,
श्रीमत्कमलाम्बिके ! पराशक्ते !
नमस्ते ! नमस्ते ! नमस्ते !
मुक्ताविद्रुम हेमकुण्डलधरा सिंहाधिरूढा शिवा ।
रक्तांभोजसमानकान्ति वदना श्रीमत्किरीटान्विता ॥
मुक्ताहेमविचित्रहारकटकैः पीतांबरा शङ्करी ।
भक्ताभीष्टवरप्रदानचतुरा मांपातु हेमाम्बिका ॥
!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
॥ श्री विद्याधीश विरचित श्री राजराजेश्वरी चूर्णिका
समाप्ता ॥

श्री राजराजेश्वरी मन्त्रमातृकास्तवः

श्री राजराजेश्वरी मन्त्रमातृकास्तवः 

कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीम्
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १॥

एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीम्
चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २॥

ईहाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां पराम्
पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३॥

लक्ष्यालक्ष्यनिरीक्षणां निरुपमां रुद्राक्षमालाधराम्
त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४॥

ह्रींबीजागतनादबिन्दुभरितां ॐकारनादात्मिकाम्
ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
ज्ञानेच्छाक्रितिनीं महीं गतवतीं गन्धर्वसंसेविताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५॥

हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णिताम्
हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६॥

सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीम्
संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतशालिनीं शिवतनूसन्दीपिनीं दीपिनीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीम्
कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्विताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८॥

हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानताम्
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९॥

लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थिताम्
लाक्षारञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।
लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थिताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १०॥

ह्रीङ्काराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीम्
माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभिताम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगाम्
सत्यां सर्वमयीं सहस्रदलगां सत्वार्णवोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२॥

कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभिताम्
नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् ।
चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३॥

लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठश्रिताम्
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गाङ्गेशप्रियाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४॥

ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीम्
वामाराध्यपदाम्बुजां सुकुलजां बीजावतीं मुद्रिणीम् ।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकाम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
या ब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६॥
!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 
॥ भगवती सर्वात्मिका श्रीराजराजेश्वरी पादारविन्दार्पणमस्तु ॥

राजराजेश्वरी स्तवः

राजराजेश्वरी स्तवः 
त्यागराजविरचितः
या त्रैलोक्यकुटुम्बिका वरसुधाधाराभिसंतर्पिणी
भूम्यादीन्द्रियचित्तचेतनपरा संविन्मयी शाश्वती ।
ब्रह्मेन्द्राच्युतवन्दितेशमहिषी विज्ञानदात्री सतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १॥
यां विद्येति वदन्ति शुद्धमतयो वाचां परां देवतां
षट्चक्रान्तनिवासिनीं कुलपथप्रोत्साहसंवर्धिनीम् ।
श्रीचक्राङ्कितरूपिणीं सुरमणेर्वामाङ्कसंशोभिनीं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ २॥

या सर्वेश्वरनायिकेति ललितेत्यानन्दसीमेश्वरी-
त्यम्बेति त्रिपुरेश्वरीति वचसां वाग्वादिनीत्यन्नदा ।
इत्येवं प्रवदन्ति साधुमतयः स्वानन्दबोधोज्ज्वलाः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ३॥

या प्रातः शिखिमण्डले मुनिजनैर्गौरी समाराध्यते
या मध्ये दिवसस्य भानुरुचिरा चण्डांशुमध्ये परम् ।
या सायं शशिरूपिणी हिमरुचेर्मध्ये त्रिसंध्यात्मिका
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ४॥

या मूलोत्थितनादसंततिलवैः संस्तूयते योगिभिः
या पूर्णेन्दुकलामृतैः कुलपथे संसिच्यते संततम् ।
या बन्धत्रयकुम्भितोन्मनिपथे सिद्ध्यष्टकेनेड्यते
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ५॥

या मूकस्य कवित्ववर्षणसुधाकादम्बिनी श्रीकरी
या लक्ष्मीतनयस्य जीवनकरी संजीविनीविद्यया ।
या द्रोणीपुरनायिका द्विजशिशोः स्तन्यप्रदात्री मुदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ६॥

या विश्वप्रभवादिकार्यजननी ब्रह्मादिमूर्त्यात्मना
या चन्द्रार्कशिखिप्रभासनकरी स्वात्मप्रभासत्तया ।
या सत्त्वादिगुणत्रयेषु समतासंवित्प्रदात्री सतां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ७॥

या क्षित्यन्तशिवादितत्त्वविलसत्स्फूर्तिस्वरूपा परं
या ब्रह्माण्दकटाहभारनिवहन्मण्डूकविश्वम्भरी ।
या विश्वं निखिलं चराचरमयं व्याप्य स्थिता संततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ८॥

या वर्गाष्टकवर्णपञ्जरशुकी विद्याक्षरालापिनी
नित्यानन्दपयोऽनुमोदनकरी श्यामा मनोहारिणी ।
सत्यानन्दचिदीश्वरप्रणयिनी स्वर्गापवर्गप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ९॥

या श्रुत्यन्तसुशुक्तिसम्पुटमहामुक्ताफलं सात्त्विकं
सच्चित्सौख्यपयोदवृष्टिफलितं सर्वात्मना सुन्दरम् ।
निर्मूल्यं निखिलार्थदं निरुपमाकारं भवाह्लाददं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १०॥

या नित्याव्रतमण्डलस्तुतपदा नित्यार्चनातत्परा
नित्यानित्यविमर्शिनी कुलगुरोर्वावयप्रकाशात्मिका ।
कृत्याकृत्यमतिप्रभेदशमनी कात्स्नर्यात्मलाभप्रदा
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ ११॥

यामुद्दिश्य यजन्ति शुद्धमतयो नित्यं पराग्नौ स्रुचा
मत्या प्राणघृतप्लुतेन्द्रियचरुद्रव्यैः समन्त्राक्षरैः ।
यत्पादाम्बुजभक्तिदार्ढ्यसुरसप्राप्त्यै बुधाः संततं
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १२॥

या संविन्मकरन्दपुष्पलतिकास्वानन्ददेशोत्थिता
सत्संतानसुवेष्टनातिरुचिरा श्रेयःफलं तन्वती ।
निर्धूताखिलवृत्तिभक्तधिषणाभृङ्गाङ्गनासेविता
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १३॥

यामाराध्य मुनिर्भवाब्धिमतरत् क्लेशोर्मिजालावृतं
यां ध्यात्वा न निवर्तते शिवपदानन्दाब्धिमग्नः परम् ।
यां स्मृत्वा स्वपदैकबोधमयते स्थूलेऽपि देहे जनः
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १४॥

यापाषाङ्कुशचापसायककरा चन्द्रार्धचूडालसत्
काञ्चीदामविभूषिता स्मितमुखी मन्दारमालाधरा ।
नीलेन्दीवरलोचना शुभकरी त्यागाधिराजेश्वरी
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १५॥

या भक्तेषु ददाति संततसुखं वाणीं च लक्ष्मीं तथा
सौन्दर्यं निगमागमार्थकवितां सत्पुत्रसम्पत्सुखम् ।
सत्सङ्गं सुकलत्रतां सुविनयं सयुज्यमुक्तिं परां
तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥ १६॥
!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितः श्रीराजराजेश्वरीस्तवः सम्पूर्णः ॥

श्री देवी सहस्रनाम स्तोत्रम् कूर्मपुराणान्तर्गतम्

श्री देवी सहस्रनाम स्तोत्रम् कूर्मपुराणान्तर्गतम् ॥

श्री देवी सहस्रनाम स्तोत्रम् कूर्मपुराणान्तर्गतम् ॥ ऋषयः ऊचुः ..कैषा भगवती देवी शंकरार्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १॥ तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ २॥ श्री कूर्म उवाच ..पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ ३॥ सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ ४॥ या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ ५॥ शिवा सर्वगताऽनन्ता गुणातीता सुनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ ६॥ अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ ७॥ एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ ८॥ सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ ९॥ चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श्रृणुध्वं मुनिपुङ्गवाः ॥ १०॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ ११॥ अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२॥ अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्तायाः रुद्रेण परमात्मना ॥ १३॥ सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १४॥ तत्र सर्वमिदं प्रोतमोत चैवाखिलं जगत् स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १५॥ कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १६॥ प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १७॥ तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १८॥ सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ १९॥ अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ २० सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनन्तयाः ॥ २१॥ सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ २२॥ करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ २३॥ लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ २४॥ प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ २५॥ एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ २६॥ शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ २७॥ शक्तयो गिरिजा देवी शक्तिमन्तोऽथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ २८॥ भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ २९॥ मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ३०॥ इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ३१॥ एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ३२॥ एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३३॥ आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ ३४॥ परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ ३५॥ शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ ३६॥ सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ ३७॥ तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ ३८॥ लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ ३९॥ तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ४०॥ मेनोवाच -- पश्य बालामिमां राजन् राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसाऽऽवयोः ॥ ४१॥ सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ४२॥ अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ ४३॥ प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ४४॥ हिमवानुवाच -- का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ ४५॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ ४६॥ देव्युवाच -- मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ४७॥ अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ४८॥ अनन्ताऽनन्तमहिमा संसारार्णवतारिणी । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ४९॥ एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् । स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ५०॥ कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् । ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ५१॥ दंष्ट्राकरालं दुर्धर्षं जटामणडलमण्डितम् । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ५२॥ प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ५३॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ५४॥ शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ५५॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ५६॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ५७॥ दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ५८॥ आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ५९॥ हिमवानुवाच -- शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ६०॥ अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ ६१॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ६२॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ ६३॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ ६४॥ अनादिनिधनाऽमोघा कारणात्मा कुलाकुला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ६५॥ प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ६६॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । सर्वशक्तिकलाकारा ज्योत्स्ना धौर्महिमास्पदा ॥ ६७॥ सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ६८॥ संसारपारा दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ ६९॥ महाविभूतिदुर्घर्षा मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ७०॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ७१॥ अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ७२॥ महामाया सुदुष्पारा मूलप्रकृतिरीश्वरी । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ७३॥ पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ७४॥ जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ ७५॥ क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ॥ ७६॥ महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ ७७॥ अकार्या कार्यजननी नित्यं प्रसवधर्मिणी । सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ ७८॥ ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ ७९॥ सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ ८०॥ महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवा । महाविमानमध्यस्था महानिद्रात्महेतुका ॥ ८१॥ सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ ८२॥ अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ॥ ८३॥ ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ८४॥ वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ ८५॥ ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ ८६॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ ८७॥ ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ ८८॥ सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ८९॥ गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ ९०॥ सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ९१॥ वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ९२॥ गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ९३॥ नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी ॥ ९४॥ शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ९५॥ महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ ९६॥ कान्ता चित्राम्बरधरा दिव्याबरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ९८॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ९९॥ वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ १००॥ विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरूपा विभावरी ॥ १०१॥ विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १०२॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १०३॥ निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १०४॥ दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १०५॥ सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १०६॥ कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १०७॥ ज्वालामालासहस्त्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १०८॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १०९॥ दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामाया महीयसी ॥ ११०॥ संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १११॥ ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी । विकृतिः शाङ्करी शास्त्री गणगन्धर्वसेविता ॥ ११२॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥ ११३॥ इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ ११४॥ हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ ११७॥ तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ११८॥ संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥ ११९॥ हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२०॥ उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२१॥ सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ॥ १२२॥ निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२३॥ परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२४॥ विद्यामयी सहस्त्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२५॥ क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२६॥ व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोका शोकनाशिनी ॥ १२७॥ अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२८॥ वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२९॥ व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १३०॥ अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १३१॥ भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ॥ १३२॥ प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १३३॥ पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १३४॥ पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १३५॥ मनोहरा मनोरक्षा तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १३६॥ योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १३७॥ किन्नरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १३८॥ सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ॥ १३९॥ कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १४०॥ सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १४१॥ आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ॥ १४२॥ दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १४३॥ मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १४४॥ पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १४५॥ महेन्द्रभगिनी मान्या वरेण्या वरदायिका । कल्याणी कमला रामा पञ्चभूता वरप्रदा ॥ १४६॥ वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १४७॥ भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा नामभेदा महामदा ॥ १४८॥ यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १४९॥ चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १५०॥ खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १५१॥ जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १५२॥ कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १५३॥ विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १५४॥ अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १५५॥ संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १५६॥ सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १५७॥ महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभा । १५८॥ सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १५९॥ विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १६०॥ अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १६१॥ अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १६२॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १६३॥ सत्यमात्रा सत्यसन्ध्या त्रिसन्ध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १६४॥ असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १६५॥ विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १६६॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १६७॥ शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १६८॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १६९॥ कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १७०॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १७१॥ अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १७२॥ हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १७३॥ महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १७४॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १७५॥ सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १७६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १७७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १७८॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १७९॥ वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १८०॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १८१॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १८२॥ सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १८३॥ वसुप्रदा वसुमती वसोर्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥ १८४॥ श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १८५॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १८६॥ सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १८७॥ नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १८८॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १८९॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १९०॥ युगन्धरा युगावर्त्ता त्रिसंध्या हर्षवर्धिनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १९१॥ शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १९२॥ शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ॥ १९३॥ समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १९४॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्ति र्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १९५॥ धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥ १९६॥ कापाली सकलामूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १९७॥ सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्मा ज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १९८॥ सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्त्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १९९॥ भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ २००॥ भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ २०१॥ संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ २०२॥ द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ २०३॥ श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ २०४॥ दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ २०५॥ प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ २०६॥ नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ २०७॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ २०८॥ अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ २०९॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ २१०॥ सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ २११॥ प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ २१२॥ जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ २१३॥ सम्पूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ २१४॥ तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापापनोदार्थं देव्या नाम सहस्रकम् ॥ २१५॥ !!!! Astrologer Gyanchand Bundiwal Nagpur । M.8275555557 !!! ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे श्रीदेवीसहस्रनामस्तोत्रम्

श्री भुवनेश्वरी भकारादि सहस्रनाम स्तोत्रम्


श्री भुवनेश्वरी भकारादि सहस्रनाम स्तोत्रम्
अथ भुवनेश्वरीभकारादिसहस्रनामस्तोत्रम् ।
ॐ अस्य श्रीभुवनेश्वरीसहस्रनाममन्त्रस्य सदाशिव 
ऋषिरनुष्टुप्छन्दः भुवनेश्वरीदेवता 
लज्जाबीजम् (ह्रीं बीजम्) कमलाशक्तिः (श्रीं बीजम्)
वाग्भवङ्कीलकम् (ऐं कीलकम्) सर्वार्त्थसाधने जपे विनियोगः ॥
भुवनेशी भुवाराघ्या भवानी भयनाशिनी ।
भवरूपा भवानन्दा भवसागरतारिणी ॥ १ ॥

भवोद्भवा भवरता भवभारनिवारिणी ।
भव्याना भव्यनयना भव्यरूपा भवौषधिः ॥ २ ॥

भव्याङ्गना भव्यकेशी भवपाशविमोचिनी ।
भव्यासना भव्यवस्त्रा भव्याभरणभूषिता ॥ ३ ॥

भगरूपा भगानन्दा भगेशी भगमालिनी ।
भगविद्या भगवती भगक्लिन्ना भगावहा ॥ ४ ॥

भगाङ्कुरा भगक्रीडा भगाद्या भगमङ्गला ।
भगलीला भगप्रीता भगसम्पद्भगेश्वरी ॥ ५ ॥

भगालया भगोत्साहा भगस्था भगपोषिणी ।
भगोत्सवा भगविद्या भगमाता भगस्थिता ॥ ६ ॥

भगशक्तिर्ब्भगनिधिब्भगपूजा भगेषणा ।
भगास्वपा भगाधीशा भगार्च्च्या भगसुन्दरी ॥ ७ ॥

भगरेखा भगस्नेहा भगस्नेहविवर्धिनी ।
भगिनी भगबीजस्था भगभोगविलासिनी ॥ ८ ॥

भगाचारा भगाधारा भगाचारा भगाश्रया ।
भगपुष्पा भगश्रीदा भगपुष्पनिवासिनी ॥ ९ ॥

भव्यरूपधरा भव्याभव्यपुष्पैरसंस्कृता ।
भव्यलीला भव्यमाला भव्याङ्गी भव्यसुन्दरी ॥ १० ॥

भव्यशीला भव्यलीला भव्याक्षी भव्यनाशिनी ।
भव्याङ्गिका भव्यवाणी भव्यकान्तिर्ब्भगालिनी ॥ ११ ॥

भव्यत्रपा भव्यनदी भव्यभोगविहारिणी ।
भव्यस्तनी भव्यमुखी भव्यगोष्ठी भयापहा ॥ १२ ॥

भक्तेश्वरी भक्तिकरी भक्तानुग्रहकारिणी ।
भक्तिदा भक्तिजननी भक्तानन्दविवर्द्धिनी ॥ १३ ॥

भक्तिप्रिया भक्तिरता भक्तिभावविहारिणी ।
भक्तिशीला भक्तिलीला भक्तेशी भक्तिपालिनी ॥ १४ ॥

भक्तिविद्या भक्तविद्या भक्तिर्भक्तिविनोदिनी ।
भक्तिरीतिर्ब्भक्तिप्रीतिर्भक्तिसाधनसाधिनी ॥ १५ ॥

भक्तिसाध्या भक्तसाध्या भक्तिराली भवेश्वरी ।
भटविद्या भटानन्दा भटस्था भटरूपिणी ॥ १६ ॥

भटमान्या भटस्थान्या भटस्थाननिवासिनी ।
भटिनी भटरूपेशी भटरूपविवर्द्धिनी ॥ १७ ॥

भटवेशी भटेशी च भगभाग्भवसुन्दरी ।
भटप्रीत्या भटरीत्या भटानुग्रहकारिणी ॥ १८ ॥

भटैराध्या भटबोध्या भटबोधविनोदिनी ।
भटैस्सेव्या भटवरा भटार्च्च्या भटबोधिनी ॥ १९ ॥

भटकीर्त्त्या भटकला भटपा भटपालिनी ।
भटैश्वर्या भटाधीशा भटेक्षा भटतोषिणी ॥ २० ॥

भटेशी भटजननी भटभाग्यविवर्द्धिनी ।
भटमुक्तिर्भटयुक्तिर्ब्भटप्रीतिविवर्द्धिनी ॥ २१ ॥

भाग्येशी भाग्यजननी भाग्यस्था भाग्यरूपिणी ।
भावनाभावकुशला भावदा भाववर्द्धिनी ॥ २२ ॥

भावरूपा भावरसा भावान्तरविहारिणी ।
भावाङ्कुरा भावकला भावस्थाननिवासिनी ॥ २३ ॥

भावातुरा भावधृता भावमध्यव्यवस्थिता ।
भावऋद्धिर्ब्भावसिद्धिर्ब्भावादिर्ब्भावभाविनी ॥ २४ ॥

भावालया भावपरा भावसाधनतत्परा ।
भावेश्वरी भावगम्या भावस्था भावगर्विता ॥ २५ ॥

भाविनी भावरमणी भारती भारतेश्वरी ।
भागीरथी भाग्यवती भाग्योदयकरीकला ॥ २६ ॥

भाग्याश्रया भाग्यमयी भाग्या भाग्यफलप्रदा  ।
भाग्यचारा भाग्यसारा भाग्यधारा च भग्यदा ॥ २७ ॥

भाग्येश्वरी भाग्यनिधिर्भाग्या भाग्यसुमातृका ।
भाग्येक्षा भाग्यना भाग्यभाग्यदा भाग्यमातृका ॥ २८ ॥

भाग्येक्षा भाग्यमनसा भाग्यादिर्भाग्यमध्यगा ।
भ्रातेश्वरी भ्रातृवती भ्रात्र्यम्बा भ्रातृपालिनी ॥ २९ ॥

भ्रातृस्था भ्रातृकुशला भ्रामरी भ्रमराम्बिका ।
भिल्लरूपा भिल्लवती भिल्लस्था भिल्लपालिनी ॥ ३० ॥

भिल्लमाता भिल्लधात्री भिल्लनी भिल्लकेश्वरी ।
भिल्लकीर्त्तिर्ब्भिल्लकला भिल्लमन्दरवासिनी ॥ ३१ ॥

भिल्लक्रीडा भिल्ललीला भिल्लार्च्च्या भिल्लवल्लभा ।
भिल्लस्नुषा भिल्लपुत्री भिल्लनी भिल्लपोषिणी ॥ ३५ ॥

भिल्लपौत्री भिल्लगोष्ठी भिल्लाचारनिवासिनी ।
भिल्लपूज्या भिल्लवाणी भिल्लानी भिल्लभितिहा ॥ ३३ ॥

भीतस्था भीतजननी भीतिर्भीतिविनाशिनी ।
भीतिदा भितिहा भीत्या भीत्याकारविहारिणी ॥ ३४ ॥

भीतेशी भीतिशमनी भीतस्थाननिवासिनी ।
भीतिरीत्या भीतिकला भीतीक्षा भीतिहारिणी ॥ ३५ ॥

भीमेशी भीमजननी भीमा भीमनिवासिनी ।
भीमेश्वरी भीमरता भीमाङ्गी भीमपालिनी ॥ ३६ ॥

भीमनादी भीमतन्त्री भीमैश्वर्यविवर्द्धिनी ।
भीमगोष्ठी भीमधात्री भीमविद्याविनोदिनी ॥ ३७ ॥

भीमविक्रमदात्री च भीमविक्रमवासिनी ।
भीमानन्दकरीदेवी भीमानन्दविहारिणी ॥ ३८ ॥

भीमोपदेशिनी नित्या भीमभाग्यप्रदायिनी ।
भीमसिद्धिर्ब्भीमऋद्धिर्ब्भीमभक्तिविवर्द्धिनी ॥ ३९ ॥

भीमस्था भीमवरदा भीमधर्मोपदेशिनी ।
भीष्मेश्वरी भीष्मभृती भीष्मबोधप्रबोधिनी ॥ ४० ॥

भीष्मश्रीर्ब्भीष्मजननी भीष्मज्ञानोपदेशिनी ।
भीष्मस्था भीष्मतपसा भीष्मेशी भीष्मतारिणी ॥ ४१ ॥

भीष्मलीला भीष्मशीला भीष्मरोदिनिवासिनी ।
भीष्माश्रया भीष्मवरा भीष्महर्षविवर्द्धिनी ॥ ४२ ॥

भुवना भुवनेशानी भुवनानन्दकारिणी ।
भुविस्था भुविरूपा च भुविभारनिवारिणी ॥ ४३ ॥

भुक्तिस्था भुक्तिदा भुक्तिर्ब्भुक्तेशी भुक्तिरूपिणी ।
भुक्तेश्वरी भुक्तिदात्री भुक्तिराकाररूपिणी ॥ ४४ ॥

भुजङ्गस्था भुजङ्गेशी भुजङ्गाकाररूपिणी ।
भुजङ्गी भुजगावासा भुजङ्गानन्ददायिनी ॥ ४५ ॥

भूतेशी भूतजननी भूतस्था भूतरूपिणी ।
भूतेश्वरी भूतलीला भूतवेषकरी सदा ॥ ४६ ॥

भूतदात्री भूतकेशी भूतधात्री महेश्वरी ।
भूतरीत्या भूतपत्नी भूतलोकनिवासिनी ॥ ४७ ॥

भूतसिद्धिर्ब्भूतऋद्धिर्भूतानन्दनिवासिनी ।
भूतकीर्त्तिर्ब्भूतलक्ष्मीर्ब्भूतभाग्यविवर्द्धिनी ॥ ४८ ॥

भूतार्च्च्या भूतरमणी भूतविद्याविनोदिनी ।
भूतपौत्री भूतपुत्री भूतभार्याविधेश्वरी ॥ ४९ ॥

भूपस्था भूपरमणी भूपेशी भूपपालिनी ।
भूपमाता भूपनिभा भूपैश्वर्यप्रदायिनी ॥ ५० ॥

भूपचेष्टा भूपनेष्ठा भूपभावविवर्द्धिनी ।
भूपभगिनी भूपभूरी भूपपौत्री तथा वधूः ॥ ५१ ॥

भूपकीर्त्तिर्ब्भूपनीतिर्ब्भूपभाग्यविवर्द्धिनी ।
भूपक्रिया भूपक्रीडा भूपमन्दरवासिनी ॥ ५२ ॥

भूपार्च्च्या भूपसँराध्या भूपभोगविवर्द्धिनी ।
भूपाश्रया भूपकाला भूपकौतुकदण्डिनी ॥ ५३ ॥

भूषणस्था भूषणेशी भूषा भूषणधारिणी ।
भूषणाधारधर्मेशी भूषणाकाररूपिणी ॥ ५४ ॥

भूपताचारनिलया भूपताचारभूषिता ।
भूपताचाररचना भूपताचारमण्डिता ॥ ५५ ॥

भूपताचारधर्मेशी भूपताचारकारिणी ।
भूपताचारचरिता भूपताचारवर्जिता ॥ ५६ ॥

भूपताचारवृद्धिस्था भूपताचारवृद्धिदा ।
भूपताचारकरणा भूपताचारकर्मदा ॥ ५७ ॥

भूपताचारकर्मेशी भूपताचारकर्मदा ।
भूपताचारदेहस्था भूपताचारकर्मिणी ॥ ५८ ॥

भूपताचारसिद्धिस्था भूपताचारसिद्धिदा ।
भूपताचारधर्माणी भूपताचारधारिणी ॥ ५९ ॥

भूपतानन्दलहरी भूपतेश्वररूपिणी ।
भूपतेर्न्नीतिनीतिस्था भूपतिस्थानवासिनी ॥ ६० ॥

भूपतिस्थानगीर्वाणी भूपतेर्वरधारिणी ॥ ६१ ॥

भेषजानन्दलहरी भेषजानन्दरूपिणी ।
भेषजानन्दमहिषी भेषजानन्दरूपिणी ॥ ६२ ॥

भेषजानन्दकर्मेशी भेषजानन्ददायिनी ।
भैषजी भैषजाकन्दा भेषजस्थानवासिनी ॥ ६३ ॥

भेषजेश्वररूपा च भेषजेश्वरसिद्धिदा ।
भेषजेश्वरधर्मेशी भेषजेश्वरकर्मदा ॥ ६४ ॥

भेषजेश्वरकर्मेशी भेषजेश्वरकर्मिणी ।
भेषजाधीशजननी भेषजाधीशपालिनी ॥ ६५ ॥

भेषजाधीशरचना भेषजाधीशमङ्गला ।
भेषजारण्यमध्यस्था भेषजारण्यरक्षिणी ॥ ६६ ॥

भैषज्यविद्या भैषज्या भैषज्येप्सितदायिनी ।
भैषज्यस्था भैषजेशी भैषज्यानन्दवर्द्धिनी ॥ ६७ ॥

भैरवी भैरवीचारा भैरवाकाररूपिणी ।
भैरवाचारचतुरा भैरवाचारमण्डिता ॥ ६८ ॥

भैरवा भैरवेशी च भैरवानन्ददायिनी ।
भैरवानन्दरूपेशी भैरवानन्दरूपिणी ॥ ६९ ॥

भैरवानन्दनिपुणा भैरवानन्दमन्दिरा ।
भैरवानन्दतत्त्वज्ञा भैरवानन्दतत्परा ॥ ७० ॥

भैरवानन्दकुशला भैरवानन्दनीतिदा ।
भैरवानन्दप्रीतिस्था भैरवानन्दप्रीतिदा ॥ ७१ ॥

भैरवानन्दमहिषी भैरवानन्दमालिनी ।
भैरवानन्दमतिदा भैरवानन्दमातृका ॥ ७२ ॥

भैरवाधारजननी भैरवाधाररक्षिणी ।
भैरवाधाररूपेशी भैरवाधाररूपिणी ॥ ७३ ॥

भैरवाधारनिचया भैरवाधारनिश्चया ।
भैरवाधारतत्त्वज्ञा भैरवाधारतत्त्वदा ॥ ७४ ॥

भैरवाश्रयतन्त्रेशी भैरवाश्रयमन्त्रिणी ।
भैरवाश्रयरचना भैरवाश्रयरञ्जिता ॥ ७५ ॥

भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्ब्भरा ।
भैरवाश्रयनिर्द्धारा भैरवाश्रयनिर्द्धरा ॥ ७६ ॥

भैरवानन्दबोधेशी भैरवानन्दबोधिनी ।
भैरवानन्दबोधस्था भैरवानन्दबोधदा ॥ ७७ ॥

भैरव्यैश्वर्यवरदा भैरव्यैश्वर्यदायिनी ।
भैरव्यैश्वर्यरचना भैरव्यैश्वर्यवर्द्धिनी ॥ ७८ ॥

भैरव्यैश्वर्यसिद्धिस्था भैरव्यैश्वर्यसिद्धिदा ।
भैरव्यैश्वर्यसिद्धेशी भैरव्यैश्वर्यरूपिणी ॥ ७९ ॥

भैरव्यैश्वर्यसुपथा भैरव्यैश्वर्यसुप्रभा ।
भैरव्यैश्वर्यवृद्धिस्था भैरव्यैश्वर्यवृद्धिदा ॥ ८० ॥

भैरव्यैश्वर्यकुशला भैरव्यैश्वर्यकामदा ।
भैरव्यैश्वर्यसुलभा भैरव्यैश्वर्यसम्प्रदा ॥ ८१ ॥

भैरव्यैश्वर्यविशदा भैरव्यैश्वर्यविक्रिता ।
भैरव्यैश्वर्यविनया भैरव्यैश्वर्यवेदिता ॥ ८२ ॥

भैरव्यैश्वर्यमहिमा भैरव्यैश्वर्यमानिनी ।
भैरव्यैश्वर्यनिरता भैरव्यैश्वर्यनिर्मिता ॥ ८३ ॥

भोगेश्वरी भोगमाता भोगस्था भोगरक्षिणी ।
भोगक्रीडा भोगलीला भोगेशी भोगवर्द्धिनी ॥ ८४ ॥

भोगाङ्गी भोगरमणी भोगाचारविचारिणी ।
भोगाश्रया भोगवती भोगिनी भोगरूपिणी ॥ ८५ ॥

भोगाङ्कुरा भोगविधा भोगाधारनिवासिनी ।
भोगाम्बिका भोगरता भोगसिद्धिविधायिनी ॥ ८६ ॥

भोजस्था भोजनिरता भोजनानन्ददायिनी ।
भोजनानन्दलहरी भोजनान्तर्विहारिणी ॥ ८७ ॥

भोजनानन्दमहिमा भोजनानन्दभोग्यदा ।
भोजनानन्दरचना भोजनानन्दहर्षिता ॥ ८८ ॥

भोजनाचारचतुरा भोजनाचारमण्डिता ।
भोजनाचारचरिता भोजनाचारचर्च्चिता ॥ ८९ ॥

भोजनाचारसम्पन्ना भोजनाचारसँय्युता ।
भोजनाचारचित्तस्था भोजनाचाररीतिदा ॥ ९० ॥

भोजनाचारविभवा भोजनाचारविस्तृता ।
भोजनाचाररमणी भोजनाचाररक्षिणी ॥ ९१ ॥

भोजनाचारहरिणी भोजनाचारभक्षिणी ।
भोजनाचारसुखदा भोजनाचारसुस्पृहा ॥ ९२ ॥

भोजनाहारसुरसा भोजनाहारसुन्दरी ।
भोजनाहारचरिता भोजनाहारचञ्चला ॥ ९३ ॥

भोजनास्वादविभवा भोजनास्वादवल्लभा ।
भोजनास्वादसन्तुष्टा भोजनास्वादसम्प्रदा ॥ ९४ ॥

भोजनास्वादसुपथा भोजनास्वादसंश्रया ।
भोजनास्वादनिरता भोजनास्वादनिर्णिता ॥ ९५ ॥

भौक्षरा भौक्षरेशानी भौकाराक्षररूपिणी ।
भौक्षरस्था भौक्षरादिर्ब्भौक्षरस्थानवासिनी ॥ ९६ ॥

भङ्कारी भर्म्मिणी भर्मी भस्मेशी भस्मरूपिणी ।
भङ्कारा भञ्चना भस्मा भस्मस्था भस्मवासिनी ॥ ९७ ॥

भक्षरी भक्षराकारा भक्षरस्थानवासिनी ।
भक्षराढ्या भक्षरेशी भरूपा भस्वरूपिणी ॥ ९८ ॥

भूधरस्था भूधरेशी भूधरी भूधरेश्वरी ।
भूधरानन्दरमणी भूधरानन्दपालिनी ॥ ९९ ॥

भूधरानन्दजननी भूधरानन्दवासिनी ।
भूधरानन्दरमणी भूधरानन्दरक्षिता ॥ १०० ॥

भूधरानन्दमहिमा भूधरानन्दमन्दिरा ।
भूधरानन्दसर्वेशी भूधरानन्दसर्वसूः ॥ १०१ ॥

भूधरानन्दमहिषी भूधरानन्ददायिनी ।
भूधराधीशधर्मेशी भूधरानन्दधर्मिणी ॥ १०२ ॥

भूधराधीशधर्मेशी भूधराधीशसिद्धिदा ।
भूधराधीशकर्मेशी भूधराधीशकामिनी ॥ १०३ ॥

भूधराधीशनिरता भूधराधीशनिर्णिता ।
भूधराधीशनीतिस्था भूधराधीशनीतिदा ॥ १०४ ॥

भूधराधीशभाग्येशी भूधराधीशभामिनी ।
भूधराधीशबुद्धिस्था भूधराधीशबुद्धिदा ॥ १०५ ॥

भूधराधीशवरदा भूधराधीशवन्दिता ।
भूधराधीशाऽराध्या च भूधराधीशचर्च्चिता ॥ १०६ ॥

भङ्गेश्वरी भङ्गमयी भङ्गस्था भङ्गरूपिणी ।
भङ्गाक्षता भङ्गरता भङ्गार्च्च्या भङ्गरक्षिणी ॥ १० ७ ॥

भङ्गावती भङ्गलीला भङ्गभोगविलासिनी ।
भङ्गरङ्गप्रतीकाशा भङ्गरङ्गनिवासिनी ॥ १०८ ॥

भङ्गाशिनी भङ्गमूली भङ्गभोगविधायिनी ।
भङ्गाश्रया भङ्गबीजा भङ्गबीजाङ्कुरेश्वरी ॥ १०९ ॥

भङ्गयन्त्रचमत्कारा भङ्गयन्त्रेश्वरी तथा ।
भङ्गयन्त्रविमोहिस्था भङ्गयन्त्रविनोदिनी ॥ ११० ॥

भङ्गयन्त्रविचारस्था भङ्गयन्त्रविचारिणी ।
भङ्गयन्त्ररसानन्दा भङ्गयन्त्ररसेश्वरी ॥ १११ ॥

भङ्गयन्त्ररसस्वादा भङ्गयन्त्ररसस्थिता ।
भङ्गयन्त्ररसाधारा भङ्गयन्त्ररसाश्रया ॥ ११२ ॥

भूधरात्मजरूपेशी भूधरात्मजरूपिणी ।
भूधरात्मजयोगेशी भूधरात्मजपालिनी ॥ ११३ ॥

भूधरात्मजमहिमा भूधरात्मजमालिनी ।
भूधरात्मजभूतेशी भूधरात्मजरूपिणी ॥ ११४ ॥

भूधरात्मजसिद्धिस्था भूधरात्मजसिद्धिदा ।
भूधरात्मजभावेशी भूधरात्मजभाविनी ॥ ११५ ॥

भूधरात्मजभोगस्था भुधरात्मजभोगदा ।
भूधरात्मजभोगेशी भूधरात्मजभोगिनी ॥ ११६ ॥

भव्या भव्यतरा भव्याभाविनी भववल्लभा ।
भावातिभावा भावाख्या भातिभा भीतिभान्तिका ॥ ११७ ॥

भासान्तिभासा भासस्था भासाभा भास्करोपमा ।
भास्करस्था भास्करेशी भास्करैश्वर्यवर्द्धिनी ॥ ११८ ॥

भास्करानन्दजननी भास्करानन्ददायिनी ।
भास्करानन्दमहिमा भास्करानन्दमातृका ॥ ११९ ॥

भास्करानन्दनैश्वर्या भास्करानन्दनेश्वरा ।
भास्करानन्दसुपथा भास्करानन्दसुप्रभा ॥ १२० ॥

भास्करानन्दनिचया भास्करानन्दनिर्मिता ।
भास्करानन्दनीतिस्था भास्करानन्दनीतिदा ॥ १२१ ॥

भास्करोदयमध्यस्था भास्करोदयमध्यगा ।
भास्करोदयतेजःस्था भास्करोदयतेजसा ॥ १२२ ॥

भास्कराचारचतुरा भास्कराचारचन्द्रिका ।
भास्कराचारपरमा भास्कराचारचण्डिका ॥ १२३ ॥

भास्कराचारपरमा भास्कराचारपारदा ।
भास्कराचारमुक्तिस्था भास्कराचारमुक्तिदा ॥ १२४ ॥

भास्कराचारसिद्धिस्था भास्कराचारसिद्धिदा ।
भास्कराचरणाधारा भास्कराचरणाश्रिता ॥ १२५ ॥

भास्कराचारमन्त्रेशी भास्कराचारमन्त्रिणी ।
भास्कराचारवित्तेशी भास्कराचारचित्रिणी ॥ १२६ ॥

भास्कराधारधर्मेशी भास्कराधारधारिणी ।
भास्कराधाररचना भास्कराधाररक्षिता ॥ १२७ ॥

भास्कराधारकर्माणी भास्कराधारकर्मदा ।
भास्कराधाररूपेशी भास्कराधाररूपिणी ॥ १२८ ॥

भास्कराधारकाम्येशी भास्काराधारकामिनी ।
भास्कराधारसांशेशी भास्कराधारसांशिनी ॥ १२९ ॥

भास्कराधारधर्मेशी भास्कराधारधामिनी ।
भास्कराधारचक्रस्था भास्कराधारचक्रिणी ॥ १३० ॥

भास्करेश्वरक्षत्रेशी भास्करेश्वरक्षत्रिणी ।
भास्करेश्वरजननी भास्करेश्वरपालिनी ॥ १३१ ॥

भास्करेश्वरसर्वेशी भास्करेश्वरशर्वरी ।
भास्करेश्वरसद्भीमा भास्करेश्वरसन्निभा ॥ १३२ ॥

भास्करेश्वरसुपथा भास्करेश्वरसुप्रभा ।
भास्करेश्वरयुवती भास्करेश्वरसुन्दरी ॥ १३३ ॥

भास्करेश्वरमूर्त्तेशी भास्करेश्वरमूर्त्तिनी ।
भास्करेश्वरमित्रेशी भास्करेश्वरमन्त्रिणी ॥ १३४ ॥

भास्करेश्वरसानन्दा भास्करेश्वरसाश्रया ।
भास्करेश्वरचित्रस्था भास्करेश्वरचित्रदा ॥ १३५ ॥

भास्करेश्वरचित्रेशी भास्करेश्वरचित्रिणी ।
भास्करेश्वरभाग्यस्था भास्करेश्वरभाग्यदा ॥ १३६ ॥

भास्करेश्वरभाग्येशी भास्करेश्वरभाविनी ।
भास्करेश्वरकीर्त्त्येशी भास्करेश्वरकीर्त्तिनी ॥ १३७ ॥

भास्करेश्वरकीर्त्तिस्था भास्करेश्वरकीर्त्तिदा ।
भास्करेश्वरकरुणा भास्करेश्वरकारिणी ॥ १३८ ॥

भास्करेश्वरगीर्वाणी भास्करेश्वरगारुडी ।
भास्करेश्वरदेहस्था भास्करेश्वरदेहदा ॥ १३९ ॥

भास्करेश्वरनादस्था भास्करेश्वरनादिनी ।
भास्करेश्वरनादेशी भास्करेश्वरनादिनी ॥ १४० ॥

भास्करेश्वरकोशस्था भास्करेश्वरकोशदा ।
भास्करेश्वरकोशेशी भास्करेश्वरकोशिनी ॥ १४१ ॥

भास्करेश्वरशक्तिस्था भास्करेश्वरशक्तिदा ।
भास्करेश्वरतोषेशी भास्करेश्वरतोषिणी ॥ १४२ ॥

भास्करेश्वरक्षेत्रेशी भास्करेश्वरक्षेत्रिणी ।
भास्करेश्वरयोगस्था भास्करेश्वरयोगदा ॥ १४३ ॥

भास्करेश्वरयोगेशी भास्करेश्वरयोगिनी ।
भास्करेश्वरपद्मेशी भास्करेश्वरपद्मिनी ॥ १४४ ॥

भास्करेश्वरहृद्बीजा भास्करेश्वरहृद्वरा ।
भास्करेश्वरहृद्योनि-र्भास्करेश्वरहृद्युतिः ॥ १४५ ॥

भास्करेश्वरबुद्धिस्था भास्करेश्वरसद्विधा ।
भास्करेश्वरसद्वाणी भास्करेश्वरसद्वरा ॥ १४६ ॥

भास्करेश्वरराज्यस्था भास्करेश्वरराज्यदा ।
भास्करेश्वरराज्येशी भास्करेश्वरपोषिणी ॥ १४७ ॥

भास्करेश्वरज्ञानस्था भास्करेश्वरज्ञानदा ।
भास्करेश्वरज्ञानेशी भास्करेश्वरगामिनी ॥ १४८ ॥

भास्करेश्वरलक्षेशी भास्करेश्वरक्षालिता ।
भास्करेश्वरलक्षिता भास्करेश्वररक्षिता ॥ १४९ ॥

भास्करेश्वरखड्गस्था भास्करेश्वरखड्गदा ।
भास्करेश्वरखड्गेशी भास्करेश्वरखड्गिनी ॥ १५० ॥

भास्करेश्वरकार्येशी भास्करेश्वरकामिनी ।
भास्करेश्वरकायस्था भास्करेश्वरकायदा ॥ १५१ ॥

भास्करेश्वरचक्षुःस्था भास्करेश्वरचक्षुषा ।
भास्करेश्वरसन्नाभा भास्करेश्वरसार्च्चिता ॥ १५२ ॥

भ्रूणहत्याप्रशमनी भ्रूणपापविनाशिनी ।
भ्रूणदारिद्र्यशमनी भ्रूणरोगनिवाशिनी ॥ १५३ ॥

भ्रूणशोकप्रशमनी भ्रूणदोषनिवारिणी ।
भ्रूणसन्तापशमनी भ्रूणविभ्रमनाशिनी ॥ १५४ ॥

भवाब्धिस्था भवाब्धीशा भवाब्धिभयनाशिनी ।
भवाब्धिपारकरणी भवाब्धिसुखवर्द्धिनी ॥ १५५ ॥

भवाब्धिकार्यकरणी भवाब्धिकरुणानिधिः ।
भवाब्धिकालशमनी भवाब्धिवरदायिनी ॥ १५६ ॥

भवाब्धिभजनस्थाना भवाब्धिभजनस्थिता ।
भवाब्धिभजनाकारा भवाब्धिभजनक्रिया ॥ १५७ ॥

भवाब्धिभजनाचारा भवाब्धिभजनाङ्कुरा ।
भवाब्धिभजनानन्दा भवाब्धिभजनाधिपा ॥ १५८ ॥

भवाब्धिभजनैश्वर्या भवाब्धिभजनेश्वरी ।
भवाब्धिभजनासिद्धिर्ब्भवाब्धिभजनारतिः ॥ १५९ ॥

भवाब्धिभजनानित्या भवाब्धिभजनानिशा ।
भवाब्धिभजनानिम्ना भवाब्धिभवभीतिहा ॥ १६० ॥

भवाब्धिभजनाकाम्या भवाब्धिभजनाकला ।
भवाब्धिभजनाकीर्त्तिर्ब्भवाब्धिभजनाकृता ॥ १६१ ॥

भवाब्धिशुभदा नित्या भवाब्धिशुभदायिनी ।
भवाब्धिसकलानन्दा भवाब्धिसकलाकला ॥ १६२ ॥

भवाब्धिसकलासिद्धिर्ब्भवाब्धिसकलानिधिः ।
भवाब्धिसकलासारा भवाब्धिसकलार्त्थदा ॥ १६३ ॥

भवाब्धिभवनामूर्त्तिर्ब्भवाब्धिभवनाकृतिः ।
भवाब्धिभवनाभव्या भवाब्धिभवनाम्भसा ॥ १६४ ॥

भवाब्धिमदनारूपा भवाब्धिमदनातुरा ।
भवाब्धिमदनेशानी भवाब्धिमदनेश्वरी ॥ १६५ ॥

भवाब्धिभाग्यरचना भवाब्धिभाग्यदा सदा ।
भवाब्धिभाग्यदाकूला भवाब्धिभाग्यनिर्ब्भरा ॥ १६६ ॥

भवाब्धिभाग्यनिरता भवाब्धिभाग्यभाविता ।
भवाब्धिभाग्यसञ्चारा भवाब्धिभाग्यसञ्चिता ॥ १६७ ॥

भवाब्धिभाग्यसुपथा भवाब्धिभाग्यसुप्रदा ।
भवाब्धिभाग्यरीतिज्ञा भवाब्धिभाग्यनीतिदा ॥ १६८ ॥

भवाब्धिभाग्यरीत्येशी भवाब्धिभाग्यरीतिनी ।
भवाब्धिभोगनिपुणा भवाब्धिभोगसम्प्रदा ॥ १६९ ॥

भवाब्धिभाग्यगहना भवाब्धिभोग्यगुम्फिता ।
भवाब्धिभोगगान्धारी भवाब्धिभोगगुम्फिता ॥ १७० ॥

भवाब्धिभोगसुरसा भवाब्धिभोगसुस्पृहा ।
भवाब्धिभोगग्रथिनी भवाब्धिभोगयोगिनी ॥ १७१ ॥

भवाब्धिभोगरसना भवाब्धिभोगराजिता ।
भवाब्धिभोगविभवा भवाब्धिभोगविस्तृता ॥ १७२ ॥

भवाब्धिभोगवरदा भवाब्धिभोगवन्दिता ।
भवाब्धिभोगकुशला भवाब्धिभोगशोभिता ॥ १७३ ॥

भवाब्धिभेदजननी भवाब्धिभेदपालिनी ।
भवाब्धिभेदरचना भवाब्धिभेदरक्षिता ॥ १७४ ॥

भवाब्धिभेदनियता भवाब्धिभेदनिस्पृहा ।
भवाब्धिभेदरचना भवाब्धिभेदरोषिता ॥ १७५ ॥

भवाब्धिभेदराशिघ्नी भवाब्धिभेदराशिनी ।
भवाब्धिभेदकर्मेशी भवाब्धिभेदकर्मिणी ॥ १७६ ॥

भद्रेशी भद्रजननी भद्रा भद्रनिवासिनी ।
भद्रेश्वरी भद्रवती भद्रस्था भद्रदायिनी ॥ १७७ ॥

भद्ररूपा भद्रमयी भद्रदा भद्रभाषिणी ।
भद्रकर्णा भद्रवेशा भद्राम्बा भद्रमन्दिरा ॥ १७८ ॥

भद्रक्रिया भद्रकला भद्रिका भद्रवर्द्धिनी ।
भद्रक्रीडा भद्रकला भद्रलीलाभिलाषिणी ॥ १७९ ॥

भद्राङ्कुरा भद्ररता भद्राङ्गी भद्रमन्त्रिणी ।
भद्रविद्या भद्रविद्या भद्रवाग्भद्रवादिनी ॥ १८० ॥

भूपमङ्गलदा भूपा भूलता भूमिवाहिनी ।
भूपभोगा भूपशोभा भूपाशा भूपरूपदा ॥ १८१ ॥

भूपाकृतिर्ब्भूपतिर्ब्भूपश्रीर्ब्भूपश्रेयसी ।
भूपनीतिर्ब्भूपरीतिर्ब्भूपभीतिर्ब्भयङ्करी ॥ १८२ ॥

भवदानन्दलहरी भवदानन्दसुन्दरी ।
भवदानन्दकरणी भवदानन्दवर्द्धिनी ॥ १८३ ॥

भवदानन्दरमणी भवदानन्ददायिनी ।
भवदानन्दजननी भवदानन्दरूपिणी ॥ १८४ ॥

य इदम्पठते स्तोत्रम्प्रत्यहम्भक्तिसँय्युतः ।
गुरुभक्तियुतो भूत्वा गुरुसेवापरायणः ॥ १८५ ॥

सत्यवादी जितेन्द्री च ताम्बूलपूरिताननः ।
दिवा रात्रौ च सन्ध्यायां स भवेत्परमेश्वरः ॥ १८६ ॥

स्तवमात्रस्य पाठेन राजा वश्यो भवेद्ध्रुवम् ।
सर्वागमेषु विज्ञानी  सर्वतन्त्रे स्वयं हरः ॥ १८७ ॥

गुरोर्मुखात्समभ्यस्य स्थित्वा च गुरुसन्निधौ ।
शिवस्थानेषु सन्ध्यायाँ शून्यागारे चतुष्पथे । १८८ ॥

यः पठेच्छृणुयाद्वापि स योगी नात्र संशयः ।
सर्वस्वन्दक्षिणान्दद्यात्स्त्रीपुत्रादिकमेव च ॥ १८९ ॥

स्वच्छन्दमानसो भूत्वा स्तवमेतत्समुद्धरेत् ।
एतत्स्तोत्ररतो देवि हररूपो न संशयः ॥ १९० ॥

यः पठेच्छृणुयाद्वापि एकचित्तेन सर्वदा ।
स दीर्ग्घायुः सुखी वाग्ग्मी वाणी तस्य न संशयः ॥ १९१ ॥

गुरुपादरतो भूत्वा कामिनीनाम्भवेत्प्रियः ।
धनवान् गुणवाञ्श्रीमान् धीमानिव गुरुः प्रिये ॥ १९२ ॥

सर्वेषान्तु प्रियो भूत्वा पूजयेत्सर्वदा स्तवम् ।
मन्त्रसिद्धिः करस्थैव तस्य देवि न संशयः ॥ १९३ ॥

कुबेरत्वम्भवेत्तस्य तस्याधीना हि सिद्धयः ।
मृतपुत्रा च या नारी दौर्ब्भाग्यपरिपीडिता ॥ १९४ ॥

वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याऽङ्गना ।
धनधान्यविहीना च रोगशोकाकुला च या ॥ १९५ ॥

ताभिरेतन्महादेवि भूर्ज्जपत्रे विलेखयेत् ।
सव्ये भुजे च बध्नीयात्सर्वसौख्यवती भवेत् ॥ १९६ ॥

एवम्पुनः पुनः प्रायाद्दुःखेन परिपीडिता ।
सभायां व्यसने व्वाणी विवादे शत्रुसङ्कटे ॥ १९७ ॥

चतुरङ्गे तथा युद्धे सर्वत्रापदि पीडिते ।
स्मरणादस्य कल्याणि संशयय्याति दूरतः ॥ १९८ ॥

न देयम्परशिष्याय नाभक्ताय च दुर्ज्जने ।
दाम्भिकाय कुशीलाय कृपणाय सुरेश्वरि ॥ १९९ ॥

दद्याच्छिष्याय शान्ताय विनीताय जितात्मने ।
भक्ताय शान्तियुक्ताय जपपूजारताय च ॥ २०० ॥

जन्मान्तरसहस्रैस्तु वर्णितुन्नैव शक्यते ।
स्तवमात्रस्य माहात्म्यव्वक्त्रकोटिशतैरपि ॥ २०१ ॥

विष्णवे कथितम्पूर्वं ब्रह्मणापि प्रियँवदे ।
अधुनापि तव स्नेहात्कथितम्परमेश्वरि ॥ २०२ ॥

गोपितव्यम्पशुभ्यश्च सर्वथा च प्रकाशयेत् ॥ २०३ ॥
!!!! Astrologer Gyanchand  Bundiwal Nagpur । M.8275555557 !!!
इति श्रीमहातन्त्रार्णवे ईश्वरपार्वतीसऽंवादे भुवनेश्वरीभकारादिसहस्रनामस्तोत्रं समाप्तम् ॥

श्री भुवनेश्वरी मन्त्रगर्भनाम सहस्रकम्

श्री भुवनेश्वरी मन्त्रगर्भनाम सहस्रकम्
श्री भैरव उवाच
Image may contain: 5 people, indoor
देवि ! तुष्टोऽस्मि सेवाभिस्तवद्रूपेण च भाषया ।
मनोऽभिलषितं किञ्चिद् वरं वरय सुव्रते ॥ १॥
श्रीदेव्युवाच
तुष्टोऽसि यदि मे देव ! वरयोग्याऽस्म्यहं यदि ।
वद मे भुवनेश्वर्याः मन्त्रं नामसहस्रकम् ॥ २॥
श्रीभैरव उवाच
तव भक्त्या ब्रवीम्यद्य देव्या नामसहस्रकम् ।
मन्त्रगर्भ चतुर्वर्गफलदं मन्त्रिणां कलौ ॥ ३॥
गोपनीयं सदा भक्त्या साधकैश्च सुसिद्धये ।
सर्वरोगप्रशमनं सर्वशत्रुभयावहम् ॥ ४॥
सर्वोत्पातप्रशमनं सर्वदारिद्रयनाशनम् ।
यशस्करं श्रीकरं च पुत्रपौत्रविवर्द्धनम् ।
देवेशि ! वेत्सि त्वद् भक्त्या गोपनीयं प्रयत्नतः ॥ ५॥
अस्य नाम्नां सहस्रस्य ऋषिः भैरव उच्यते ।
पङ्क्तिश्छन्दः समाख्याता देवता भुवनेश्वरी ॥ ६॥

ह्रीं बीजं श्रीं च शक्तिः स्यात् क्लीं कीलकमुदाहृतम् ।
मनोऽभिलाषसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ७॥

॥ ऋष्यादिन्यासः ॥

श्रीभैरवऋषये नमः शिरसि । पङ्क्तिश्छन्दसे नमः मुखे ।
श्रीभुवनेश्वरीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
श्रीं शक्त्ये नमः नाभौ । क्लीं कीलकाय नमः पादयोः ।
मनोऽभिलाषयसिद्धयर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥

ॐ ह्रीं श्रीं जगदीशानी ह्रीं श्रीं बीजा जगत्प्रिया।
ॐ श्रीं जयप्रदा ॐ ह्रीं जया ह्रीं जयवर्द्धिनी ॥ ८॥

ॐ ह्रीं श्रीं वां जगन्माता श्रीं क्लीं जगद्वरप्रदा ।
ॐ ह्रीं श्रीं जूं जटिनी ह्रीं क्लीं जयदा श्रीं जगन्धरा ॥ ९॥

ॐ क्लीं ज्योतिष्मती ॐ जूं जननी श्रीं जरातुरा।
ॐ स्त्रीं जूं जगती ह्रीं श्रीं जप्या ॐ जगदाश्रया ॥ १०॥

ॐ श्रीं जूं सः जगन्माता ॐ जूं जगत् क्षयंङ्करी ।
ॐ श्रीं क्लीं जानकी स्वाहा श्रीं क्लीं ह्रीं जातरूपिणी ॥ ११॥

ॐ श्रीं क्लीं जाप्यफलदा ॐ जूं सः जनवल्ल्भा ।
ॐ श्रीं क्लीं जननीतिज्ञा ॐ श्रीं जनत्रयेष्टदा ॥ १२॥

ॐ क्लीं कमलपत्राक्षी ॐ श्रीं क्लीं ह्रीं च कामिनी ।
ॐ गूं घोररवा ॐ श्रीं घोररूपा हसौः गतिः ॥ १३॥

ॐ गं गणेश्वरी ॐ श्रीं शिववामाङ्गवासिनी ।
ॐ श्रीं शिवेष्टदा स्वाहा ॐ श्रीं शीतातप्रिया ॥ १४॥

ॐ श्रीं गूं गणमाता च ॐ श्रीं क्लीं गुणरागिणी ॥

ॐ श्रीं गणेशमाता च ॐ श्रीं शङ्करवल्लभा ॥ १५॥

ॐ श्रीं क्लीं शीतलाङ्गी श्रीं शीतला श्रीं शिवेश्वरी ।
ॐ श्रीं क्लीं ग्लौं गजराजस्था ॐ श्रीं गीं गौतमी तथा ॥ १६॥

ॐ घां घुरघुरनादा च ॐ गीं गीतप्रिया हसौः ।
ॐ घां घरिणी घटान्तःस्था ॐ गीं गन्धर्वसेविता ॥१७॥

ॐ गौं श्रीं गोपति स्वाहा ॐ गीं गौं गणप्रिया ।
ॐ गीं गोष्ठी हसौः गोप्या ॐ गीं धर्माञ्सुलोचना ॥ १८॥

ॐ श्रीं गन्त्रीं हसौः घण्टा ॐ घं घण्टारवाकुला ।
ॐ घ्रीं श्रीं घोररूपा च ॐ गीं श्रीं गरुडी हसौः ॥ १९॥

ॐ गीं गणया हसौः गुर्वी ॐ श्रीं घोरद्युतिस्तथा ।
ॐ श्रीं गीं गणगन्धर्वसेवताङ्गी गरीयसी ॥ २०॥

ॐ श्रीं गाथ हसौः गोप्त्री ॐ गीं गणसेविता ॥

ॐ श्रीं गुणमति स्वाहा श्रीं क्लीं गौरी हसौः गदा ॥ २१॥

ॐ श्रीं गीं गौररूपा च ॐ गीं गौरस्वरा तथा ।
ॐ श्रीं गीं क्लीं गदाहस्ता ॐ गीं गोन्दा हसौः पयः ॥ २२॥

ॐ श्रीं गीं क्लीं गम्यरूपा च ॐ अगम्या हसौः वनम् ॥

ॐ श्रीं घोरवदना घोराकारा हसौः पयः ॥ २३॥

ॐ ह्रीं श्रीं क्लीं कोमलाङ्गी च ॐ क्रीं कालभयङ्करी ।
ऊ क्रीं कर्पतहस्ता च क्रीं ह्रूं कादम्बरी हसौः ॥ २४॥

क्रीं श्रीं कनकवर्णा च ॐ क्रीं कनकभूषणा ।
ॐ क्रीं काली हसौः कान्ता क्रीं ह्रूं कारुण्यरूपिणी ॥ २५॥

ॐ क्रीं श्रीं कूटप्रिया क्रीं ह्रूं त्रिकुता क्रीं कुलेश्वरी ।
ॐ क्रीं कम्बलवस्त्रा च क्रीं पीताम्बरसेविता ॥ २६॥

क्रीं श्रीं कुल्या हसौः कीर्तिः क्रीं श्रीं क्लीं क्लेशहारिणी ।
ॐ क्रीं कूटालया क्रीं ह्रीं कूटकर्त्री हसौः कुटीः ॥ २७॥

ॐ श्रीं क्लीं कामकमला क्लीं शीं कमला क्रीं च कौरवी ।
ॐ क्लीं श्रीं कुरुरवा ह्रीं श्रीं हाटकेश्वरपूजिता ॥ २८॥

ॐ ह्रां रां रम्यरूपा च ॐ श्रीं क्लीं काञ्चनाङ्गदा ।
ॐ क्रीईं श्रीं कुण्डली क्रीं हूँ काराबन्धनमोक्षदा ॥ २९॥

ॐ क्रीं कुर हसौः क्लऊ ब्लू ॐ क्रीं कौरवमर्दिनी ।
ॐ श्रीं कटु हसौः कुण्टी ॐ श्रीं कुष्ठक्षयङ्करी ॥ ३०॥

ॐ श्रीं चकोरकी कान्ता क्रीं श्रीं कापालिनी परा ।
ॐ श्रीं क्लीं कालिका कामा ॐ श्रीं ह्रीं क्लीं कलङ्किता॥ ३१॥

क्रीं श्रीं क्लीं क्रीं कठोराङ्गी ॐ श्रीं कपटरूपिणी ।
ॐ क्रीं कामवती क्रीं श्रीं कन्या क्रीं कालिका हसौः ॥ ३२॥

ॐ श्मशानकालिका श्रीं क्लीं ॐ क्रीं श्रीं कुटिलालका ।
ॐ क्रीं श्रीं कुटिलभ्रूश्च क्रीं ह्रूं कुटिलरूपिणी ॥ ३३॥

ॐ क्रीं कमलहस्ता च क्रीं कुण्टी ॐ क्रीं कौलिनी ।
ॐ श्रीं क्लीं कण्ठमध्यस्था क्लीं कान्तिस्वरुपिणी ॥ ३४॥

ॐ क्रीं कार्तस्वरूपा च ॐ क्रीं कात्यायनी हसौः ।
ॐ क्रीं कलावती हसौः काम्या क्रीं कलानिधीशेश्वरी ॥ ३५॥

ॐ क्रीं श्रीं सर्वमध्यस्था ॐ क्रीं सर्वेश्वरी पयः ।
ॐ क्रीं ह्रूं चक्रमध्यस्था ॐ क्रीं श्रीं चक्ररूपिणी ॥ ३६॥

ॐ क्रीं हूँ चं चकोराक्षी ॐ चं चन्दनशीतला ।
ॐ चं चर्माम्बरा ह्रूं क्रीं चारुहासा हसौः च्युता ॥ ३७॥

ॐ श्रीं चौरप्रिया हूँ च चार्वङ्गी श्रीं चलाऽचला ।
ॐ श्रीं हूँ कामराज्येष्टा कुलिनी क्रीं हसौः कुहू ॥ ३८॥

ॐ क्रीं क्रिया कुलाचारा क्रीं क्रीं कमलवासिनी ।
ॐ क्रीं हेलाः हसौः लीलाः ॐ क्रीं कालवासिनी ॥ ३९॥

ॐ क्रीं कालप्रिया ह्रूं क्रीं कालरात्रि हसौः बला ।
ॐ क्रीं श्रीं शशिमध्यस्था क्रीं श्रीं कन्दर्पलोचना ॥ ४०॥

ॐ क्रीं शीताञ्शुमुकुटा क्रीं श्रीं सर्ववरप्रदा ।
ॐ श्रीं श्याम्बरा स्वाहा ॐ श्रीं श्यामलरूपिणी ॥ ४१॥

ॐ श्रीं क्रीं श्रीं सती स्वाहा ॐ क्रीं श्रीधरसेविता ।
ॐ श्रीं रूक्षा हसौः रम्भा ॐ क्रीं रसवर्तिपथा ॥ ४२॥

ॐ कुण्डगोलप्रियकरी ह्रीं श्रीं ॐ क्लीं कुरूपिणी ।
ॐ श्रीं सर्वा हसौः तॄप्तिः ॐ श्रीं तारा हसौः त्रपा ॥ ४३॥

ॐ श्रीं तारुण्यरूपा च ॐ क्रीं त्रिनयना पयः ।
ॐ श्रीं ताम्बूलरक्तास्या ॐ क्रीं उग्रप्रभा तथा ॥ ४४॥

ॐ श्रीं उग्रेश्वरी स्वाहा ॐ श्रीं उग्ररवाकुला ।
ॐ क्रीं च सर्वभूषाढ्या ॐ श्रीं चम्पकमालिनी ॥ ४५॥

ॐ श्रीं चम्पकवल्ली च ॐ श्रीं च च्युतालया ।
ॐ श्रीं द्युतिमति स्वाहा ॐ श्रीं देवप्रसूः पयः ॥ ४६॥

ॐ श्रीं दैत्यारिपूजा च ॐ क्रीं दैत्यविमर्दिनी ।
ॐ श्रीं द्युमणिनेत्रा च ॐ श्रीं दम्भविवर्जिता ॥ ४७॥

ॐ श्रीं दारिद्रयराशिध्नी ॐ श्रीं दामोदरप्रिया ।
ॐ क्लीं दर्पापहा स्वाहा ॐ क्रीं कन्दर्पलालसा ॥ ४८॥

ॐ क्रीं करीरवॄक्षस्था ॐ क्रीं हूँङ्कारिगामिनी ।
ॐ क्रीं शुकात्मिका स्वाहा ॐ क्रीं शुककरा तथा ॥ ४९॥

ॐ श्रीं शुकश्रुतिः श्रीं क्लीं श्रीं ह्रीं शुककवित्वदा ।
ॐ क्रीं शुकप्रसू स्वाहा ॐ श्रीं क्रीं शवगामिनी ॥ ५०॥

ॐ रक्ताम्बरा स्वाहा ॐ क्रीं पीताम्बरार्चिता ।
ॐ श्रीं क्रीं स्मितसंयुक्ता ॐ श्रीं सौः स्मरा पुरा ॥ ५१॥

ॐ श्रीं क्रीं हूँ च स्मेरास्या ॐ श्रीं स्मरविवद्धिनी ।
ॐ श्री सर्पाकुला स्वाहा ॐ श्रीं सर्वोपवेशिनी ॥ ५२॥

ॐ क्रीं सौः सर्पकन्या च ॐ क्रीं सर्पासनप्रिया ।
सौः सौः क्लीं सर्वकुटिला ॐ श्रीं सुरसुरार्चिता ॥ ५३॥

ॐ श्रीं सुरारिमथिनी ॐ श्रीं सुरिजनप्रिया ।
ऐं सौः सूर्येन्दुनयना ऐं क्लीं सूर्यायुतप्रभा ॥ ५४॥

ऐं श्रीं क्लीं सुरदेव्या च ॐ श्रीं सर्वेश्वरी तथा ।
ॐ श्रीं क्षेमकरी स्वाहा ॐ क्रीं हूँ भद्रकालिका ॥ ५५॥

ॐ श्रीं श्यामा हसौः स्वाहा ॐ श्रीं ह्रीं शर्वरीस्वाहा ।
ॐ श्रीं क्लीं शर्वरी तथा ॐ श्रीं क्लीं शाअन्तरूपिणी ॥ ५६॥

ॐ क्रीं श्रीं श्रीधरेशानी ॐ श्रीं क्लीं शासिनी तथा ।
ॐ क्लीं शितिर्हसौः शौरी ॐ श्रीं क्लीं शारदा तथा ॥ ५७॥

ॐ श्रीं ह्रीं शारिका स्वाहा ॐ श्रीं शाकम्भरी तथा ।
ॐ श्रीं क्लीं शिवरूपा च ॐ श्रीं क्लीं कामचारिणी ॥ ५८॥

ॐ यं यज्ञेश्वरी स्वाहा ॐ श्रीं यज्ञप्रिया सदा ।
ॐ ऐं क्लीं यं यज्ञरूपा च ॐ श्रीं यं यज्ञदक्षिणा ॥ ५९॥

ॐ श्रीं यज्ञार्चिता स्वाहा ॐ यं याज्ञिकपूजिता ।
श्रीं ह्रीं यं यजमानस्त्री ॐ यज्वा हसौः वधूः ॥ ६०॥

श्रीं वां बटुकपूजिता ॐ श्रीं वरूथिनी स्वाहा ॥

ॐ क्रीं वार्ता हसौः ॐ श्रीं वरदायिनी स्वाहा॥ ६१॥

ॐ श्रीं क्लीं ऐं च वाराही ॐ श्रीं क्लीं वरवर्णिनी ।
ॐ ऐं सौः वार्तदा स्वाहा ॐ श्रीं वाराङ्गना तथा॥ ६२॥

ॐ श्रीं वैकुण्ठपूजा च वां श्रीं ऐं क्लीं च वैष्णवी ।
ॐ श्रीं ब्रां ब्राह्मणी स्वाहा ॐ क्रीं ब्राह्मणपूजिता ॥ ६३॥

ॐ श्रीं ऐं क्लीं च इन्द्राणी ॐ क्लीं इन्द्रपूजिता ।
ॐ श्रीं क्लीं ऐन्द्रि ऐं स्वाहा ॐ श्रीं क्लीं इन्दुशेखरा ॥ ६४॥

ॐ ऐं इन्द्रसमानाभा ॐ ऐं क्लीं इन्द्रवल्लभा ।
ॐ श्रीं इडा हसौः नाभिः ॐ श्रीं ईश्वरपूजिता ॥ ६५॥

ॐ ब्रां ब्राह्मी क्लीं रुं रुद्राणी ॐ ऐं द्रीं श्रीं रमा तथा ।
ॐ ऐं क्लीं स्थाणुप्रिया स्वाहा ॐ गीं पदक्षयकरी ॥ ६६॥

ॐ गीं गीं श्रीं गुरस्था च ऐं क्लीं गुदविवर्द्धिनी ।
ॐ श्रीं क्रीं क्रूं कुलीरस्था ॐ क्रीं श्रीं कूर्मपृष्ठगा ॥ ६७॥

ॐ श्रीं धूं तोतला स्वाहा ॐ त्रौं त्रिभुवनार्चिता ।
ॐ प्रीं प्रीतिर्हसौः प्रीतां प्रीं प्रभा प्रीं पुरेश्वरी ॥ ६८॥

ॐ प्रीं पर्वतपुत्री च ॐ प्रीं पर्वतवासिनी ।
ॐ श्रीं प्रीतिप्रदा स्वाहा ॐ ऐं सत्त्वगुणाश्रिता ॥ ६९॥

ॐ क्लीं सत्यप्रिया स्वाहा ऐं सौं क्लीं सत्यसङ्गरा ।
ॐ श्रीं सनातनी स्वाहा ॐ श्रीं सागरशायिनी ॥ ७०॥

ॐ क्लीं चं चन्द्रिका ऐं सौं चन्द्रमण्डलमध्यगा ।
ॐ श्रीं चारुप्रभा स्वाहा ॐ क्रीं प्रें प्रेतशायिनी ॥ ७१॥

ॐ श्रीं श्रीं मथुरा ऐं क्रीं काशी श्रीं श्रीं मनोरमा ।
ॐ श्रीं मन्त्रमयी स्वाहा ॐ चं चन्द्रकशीतला ॥ ७२॥

ॐ श्रीं शाङ्करी स्वाहा ॐ श्रीं सर्वाङ्गवासिनी ।
ॐ श्रीं सर्वप्रिया स्वाहा ॐ श्रीं क्लीं सत्यभामिनी ॥ ७३॥

ॐ क्लीं सत्यात्मिका स्वाहा ॐ क्लीं ऐं सौः च सात्त्विकी ।
ॐ श्रीं रां राजसी स्वाहा ॐ क्रीं रम्भोपमा तथा ॥ ७४॥

ॐ श्रीं राघवसेव्या च ॐ श्रीं रावणघातिनी ।
ॐ निशुम्भोहन्त्री ह्रीं श्रीं क्लीं ॐ क्रीं शुम्भमदापहा ॥ ७५॥

ॐ श्रीं रक्तप्रिया हरा ॐ श्रीं क्रीं रक्तबीजक्षयङ्करी ।
ॐ श्रीं माहिषपृष्टस्था ॐ श्रीं महिषघातिनी ॥ ७६॥

ॐ श्रीं माहिषे स्वाहा ॐ श्रीं श्रीं मानवेष्टदा ।
ॐ श्रीं मतिप्रदा स्वाहा ॐ श्रीं मनुमयी तथा ॥ ७७॥

ॐ श्रीं मनोहराङ्गी च ॐ श्रीं माधवसेविता ।
ॐ श्रीं माधवस्तुत्या च ॐ श्रीं वन्दीस्तुता सदा ॥ ७८॥

ॐ श्रीं मानप्रदा स्वाहा ॐ श्रीं मान्या हसौः मतिः ।
ॐ श्रीं श्रीं भामिनी स्वाहा ॐ श्रीं मानक्षयङ्करी ॥ ७९॥

ॐ श्रीं मार्जारगम्या च ॐ श्रीं श्रीं मृगलोचना ।
ॐ श्रीं मरालमतिः ॐ श्रीं मुकुरा प्रीं च पूतना ॥ ८०॥

ॐ श्रीं परापरा च ॐ श्रीं परिवारसमुद्भवा ।
ॐ श्रीं पद्मवरा ऐं सौः पद्मोद्भवक्षयङ्करी ॥ ८१॥

ॐ प्रीं पद्मा हसौः पुण्यै ॐ प्रीं पुराङ्गना तथा ।
ॐ प्रीं पयोदृशदृशी ॐ प्रीं परावतेश्वरी ॥ ८२॥

ॐ पयोधरनम्रङ्गी ॐ ध्रीं धाराधरप्रिया ।
ॐ धृति ऐं दया स्वाहा ॐ ॐ श्रीं क्रीं श्रीं दयावती ॥ ८३॥

ॐ श्रीं द्रुतगतिः स्वाहा ॐ द्रीं द्रं वनघातिनी ।
ॐ चं चर्माम्बरेशानी ॐ चं चण्डालरूपिणी ॥ ८४॥

ॐ चामुण्डाहसौः चण्डी ॐ चं क्रीं चण्डिकापयः ।
ॐ क्रीं चण्डप्रभा स्वाहा ॐ चं क्रीं चारुहासिनी ॥ ८५॥

ॐ क्रीं श्रीं अच्युतेष्टा ह्रीं चण्डमुण्डक्षयकरी ।
ॐ त्रीं श्रीं त्रितये स्वाहा ॐ श्रीं त्रिपुरभैरवी ॥ ८६॥

ॐ ऐं सौः त्रिपुरानन्दा ॐ ऐं त्रिपुरसूदिना ।
ॐ ऐं क्लीं सौः त्रिपुरध्यक्षा ऐं त्रौं श्रीं त्रिपुराऽऽश्रया ॥ ८७॥

ॐ श्रीं त्रिनयने स्वाहा ॐ श्रीं तारा वरकुला ।
ॐ श्रीं तुम्बुरुहस्ता च ॐ श्रीं मन्दभाषिणी ॥ ८८॥

ॐ श्रीं महेश्वरी स्वाहा ॐ श्रीं मोदकभक्षिणी ।
ॐ श्रीं मन्दोदरी स्वाहा ॐ श्रीं मधुरभाषिणी ॥ ८९॥

ॐ म्रीं श्रीं मधुरलापा ॐ श्रीं मोहितभाषिणी ।
ॐ श्रीं मातामही स्वाहा ॐ मान्या म्रीं मदालसा ॥ ९०॥

ॐ म्रीं मदोद्धता स्वाहा ॐ म्रीं मन्दिरवासिनी ।
ॐ श्रीं क्लीं षोडशारस्था ॐ म्रीं द्वादशरूपिणी ॥ ९१॥

ॐ श्रीं द्वादशपत्रस्था ॐ श्रीं अं अष्टकोणगा ।
ॐ म्रीं मातङ्गी हसौः श्रीं क्लीं मत्तमातङ्गगामिनी ॥ ९२॥

ॐ म्रीं मालापहा स्वाहा ॐ म्रीं माता हसौः सुधा ।
ॐ श्रीं सुधाकला स्वाहा ॐ श्रीं म्रीं मांसिनी स्वाहा ॥ ९३॥

ॐ म्रीं माला करी तथा ॐ म्रीं मालाभूषिता ।
ॐ म्रीं माध्वी रसापूर्णा ॐ श्रीं सूर्या हसौः सती ॥ ९४॥

ॐ ऐं सौः क्लीं सत्यरूपा ॐ श्रीं दीक्षाहसौः दरी ।
ॐ द्रीं दातॄप्रिया ह्रीं श्रीं दक्षयज्ञविनाशिनी ॥ ९५॥

ॐ दातृप्रसू स्वाहा ॐ श्रीं दाता हसौः पयः
ॐ श्रीं ऐं सौः च सुमुखी ॐ ऐं सौः सत्यवारुणी ॥ ९६॥

ॐ श्रीं साडम्बरा स्वाहा ॐ श्रीं ऐं सौः सदागतिः ।
ॐ श्रीं सीता हसौः सत्या ॐ ऐं सन्तानशायिनी ॥ ९७॥

ॐ ऐं सौः सर्वदृष्टिश्च ॐ क्रीं कल्पान्तकारिणी ।
ॐ श्रीं चन्द्रकल्लधरा ॐ ऐं श्रीं पशुपालिनी ॥ ९८॥

ॐ श्रींशिशुप्रिया ऐं सौः शिशूत्सङ्गनिवेशिता ।
ॐ ऐं सौः तारिणी स्वाहा ॐ ऐं क्लीं तामसी तथा॥ ९९॥

ॐ म्रीं मोहान्धकारघ्नी ॐ म्रीं मत्तमनास्तथा ।
ॐ म्रीं श्रीं माननीया च ॐ प्रीं पूजाफलदा ॥ १००॥

ॐ श्रीं श्रीं श्रीफला स्वाहा ॐ श्रीं क्लीं सत्यरूपिणी ।
ॐ श्रीं नारायणी स्वाहा ॐ श्रीं नूपुराकिला ॥ १०१॥

ॐ म्रीं श्रीं नारसिंही च ॐ म्रीं नारायाणप्रिया ।
ॐ म्रीं हंसगतिः स्वाहा ॐ श्रीं हंसौ हसौः पयः ।१०२॥

ॐ श्रीं क्रीं करवालेष्टा ॐ क्रीं कोटरवासिनी ॥

ॐ क्रीं काञ्चनभूषाढ्या ॐ क्रीं श्रीं कुरीपयः ॥ १०३॥

ॐ क्रीं शशिरूपा च श्रीं सः सूर्यरूपिणी ।
ॐ श्रीं वामप्रिया स्वाहा ॐ वीं वरुणपूजिता ॥ १०४॥

ॐ वीं वटेश्वरी स्वाहा ॐ वीं वामनरूपिणी ।
ॐ रं व्रीं श्रीं खेचरी स्वाहा ॐ रं व्रीं श्रीं साररूपिणी ॥ १०५॥

ॐ रं ब्रीं खड्गधारिणी स्वाहा ॐ रं ब्रीं खप्परधारिणी ।
ॐ रं ब्रीं खर्परयात्रा च ॐ प्रीं प्रेतालया तथा ॥ १०६॥

ॐ श्रीं क्लीं प्रीं च दूतात्मा ॐ प्रीं पुष्पवर्द्धिनी ।
ॐ श्रीं श्रीं सान्तिदा स्वाहा ॐ प्रीं पातालचारिणी ॥ १०७॥

ॐ म्रीं मूकेश्वरी स्वाहा ॐ श्रीं श्रीं मन्त्रसागरा ।
ॐ श्रीं क्रीं क्रयदा स्वाहा ॐ क्रीं विक्रयकारिणी ॥ १०८॥

ॐ क्रीं क्रयात्मिका स्वाहा ॐ क्रीं श्रीं क्लीं कृपावती ।
ॐ क्रीं श्रीं ब्रां विचित्राङ्गी ॐ श्रींक्लीं वीं विभावरी ॥ १०९॥

ॐ वीं श्रीं विभावसुनेत्रा ॐ वीं श्रीं वामकेश्वरी ।
ॐ श्रीं वसुप्रदा स्वाहा ॐ श्रीं वैश्रवणार्चिता ॥ ११०॥

ॐ भैं श्रीं भाग्यदा स्वाहा ॐ भैं भैं भगमालिनी ।
ॐ भैं श्रीं भगोदरा स्वाहा ॐ भैं क्लीं वैन्दवेश्वरी ॥ १११॥

ॐ भैं श्रीं भवमध्यस्था ऐं क्लीं त्रिपुरसुन्दरी ।
ॐ श्रीं क्रीं भीतिहर्त्री च ॐ भैं भूतभयङ्करी ॥ ११२॥

ॐ भैं भयप्रदा भैं श्रीं भगिनी भैं भयापहा ।
ॐ ह्रीं श्रीं भोगदा स्वाहा श्रीं क्लीं ह्रीं भुवनेश्वरी ॥ ११३॥

इति श्रीदेवदेवेशि ! नाम्ना साहस्रकोत्तमः ।
मन्त्रगर्भं परं रम्यं गोप्यं श्रीदं शिवात्मकम् ॥ ११४॥

माङ्गल्यं भद्रद सेव्यं सर्वरोगक्षयङ्करम् ।
सर्वदारिद्रयराशिघ्नं सर्वामरप्रपूजितम् ॥ ११५॥

रहस्यं सर्वदेवानां रहस्यं सर्वदेहिनाम् ।
दिव्यं स्तोत्रमिदं नाम्नां सहस्रमनुभिर्युतम् ॥ ११६॥

परापरं मनुमयं परापररहस्यकम् ।
इदं नाम्नां सहस्राख्यं स्तवं मन्त्रमयं परम् ॥ ११७॥

पठनीयं सदा देवि ! शून्यागारे चतुष्पथे ।
निशीथे चैव मध्याह्ने लिखेद् यत्नेन देशिकः ॥ ११८॥

गन्धैश्च कुसुमैश्चैव कर्पूरेण च वासितैः ।
कस्तूरीचन्दनैर्देवि ! दूर्वया च महेश्वरी ! ॥ ११९॥

रजस्वलाया रक्तेन लिखेन्नाम्नां सहस्रकम् ।
लिखित्वा धारयेन्मूर्ध्नि साधकः सुभवाञ्छकः ॥ १२०॥

यं यं कामयते कामं तं तं प्राप्नोति लीलया ।
अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् ॥ १२१॥

कन्यार्थी लभते कन्यां विद्यार्थी शास्त्रपारगः ।
वन्ध्या पुत्रयुता देवि ! मृतवत्सा तथैव च ॥ १२२॥

पुरुषो दक्षिणे बाहौ योषिद् वामकरे तथा ।
धृत्वा नाम्नां सहस्रं तु सर्वसिद्धिर्भवेद् ध्रुवम् ॥ १२३॥

नात्र सिद्धाद्यपेक्षाऽस्ति न वा मित्रारिदूषणम् ।
सर्वसिद्धिकृतं चैतत् सर्वाभीष्टफलप्रदम् ॥ १२४॥

मोहान्धकारापहरं महामन्त्रमयं परं ।
इदं नाम्नां सहस्रं तु पठित्वा त्रिविधं दिनम् ॥ १२५॥

रात्रौ वारत्रयं चैव तथा मासत्रयं शिवे ! ।
बलिं दद्याद् यथाशक्त्या साधकः सिद्धिवाञ्छकः ॥ १२६॥

सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा।
पञ्चम्यां च नवम्यां च चतुर्दश्यां विशेषतः ॥ १२७॥

पठित्वा साधको दद्याद् बलिं मन्त्रविधानवित् ।
कर्मणा मनसा वाचा साधको भैरवो भवेत् ॥ १२८॥

अस्य नाम्नां सहस्रस्य महिमानं सुरेश्वरि !।
वक्तुं न शक्यते देवि ! कल्पकोटिशतैरपि ॥ १२९॥

मारीभये चौरभये रणे राजभये तथा ।
अग्निजे वायुजे चैव तथा कालभये शिवे !॥ १३०॥

वनेऽरण्ये श्मशाने च महोत्पाते चतुष्पथे ।
दुर्भिक्षे ग्रहपीडायां पठेन्नाम्नां सहस्रकम् ॥ १३१॥

तत् सद्यः प्रशमं याति हिमवद्भास्करोदये ।
एकवारं पठेत् पात्रः तस्य शत्रुर्न जायते ॥ १३२॥

त्रिवारं सुपठेद् यस्तु स तु पूजाफलं लभेत् ।
दशावर्तं पठेत् यस्तु देवीदर्शनमाप्नुयात् ॥ १३३॥

शतावतं पठेद् यस्तु स सद्यो भैरवोपमः ।
इदं रहस्यं परमं तव प्रीत्या मया स्मॄतम् ॥ १३४॥

गोपनीयं प्रयत्नेन चेत्याज्ञा परमेश्वरि ! ।
नाभक्तेभ्यस्तु दातव्यो गोपनीयं महेश्वरि ॥ १३५॥
॥ इति श्रीभुवनेश्वरीरहस्ये श्रीभुवनेश्वरीमन्त्रगर्भसहस्रनामकं
सम्पूर्णम् ॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...