Friday 22 September 2017

श्री भुवनेश्वरी मन्त्रगर्भनाम सहस्रकम्

श्री भुवनेश्वरी मन्त्रगर्भनाम सहस्रकम्
श्री भैरव उवाच
Image may contain: 5 people, indoor
देवि ! तुष्टोऽस्मि सेवाभिस्तवद्रूपेण च भाषया ।
मनोऽभिलषितं किञ्चिद् वरं वरय सुव्रते ॥ १॥
श्रीदेव्युवाच
तुष्टोऽसि यदि मे देव ! वरयोग्याऽस्म्यहं यदि ।
वद मे भुवनेश्वर्याः मन्त्रं नामसहस्रकम् ॥ २॥
श्रीभैरव उवाच
तव भक्त्या ब्रवीम्यद्य देव्या नामसहस्रकम् ।
मन्त्रगर्भ चतुर्वर्गफलदं मन्त्रिणां कलौ ॥ ३॥
गोपनीयं सदा भक्त्या साधकैश्च सुसिद्धये ।
सर्वरोगप्रशमनं सर्वशत्रुभयावहम् ॥ ४॥
सर्वोत्पातप्रशमनं सर्वदारिद्रयनाशनम् ।
यशस्करं श्रीकरं च पुत्रपौत्रविवर्द्धनम् ।
देवेशि ! वेत्सि त्वद् भक्त्या गोपनीयं प्रयत्नतः ॥ ५॥
अस्य नाम्नां सहस्रस्य ऋषिः भैरव उच्यते ।
पङ्क्तिश्छन्दः समाख्याता देवता भुवनेश्वरी ॥ ६॥

ह्रीं बीजं श्रीं च शक्तिः स्यात् क्लीं कीलकमुदाहृतम् ।
मनोऽभिलाषसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ७॥

॥ ऋष्यादिन्यासः ॥

श्रीभैरवऋषये नमः शिरसि । पङ्क्तिश्छन्दसे नमः मुखे ।
श्रीभुवनेश्वरीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
श्रीं शक्त्ये नमः नाभौ । क्लीं कीलकाय नमः पादयोः ।
मनोऽभिलाषयसिद्धयर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥

ॐ ह्रीं श्रीं जगदीशानी ह्रीं श्रीं बीजा जगत्प्रिया।
ॐ श्रीं जयप्रदा ॐ ह्रीं जया ह्रीं जयवर्द्धिनी ॥ ८॥

ॐ ह्रीं श्रीं वां जगन्माता श्रीं क्लीं जगद्वरप्रदा ।
ॐ ह्रीं श्रीं जूं जटिनी ह्रीं क्लीं जयदा श्रीं जगन्धरा ॥ ९॥

ॐ क्लीं ज्योतिष्मती ॐ जूं जननी श्रीं जरातुरा।
ॐ स्त्रीं जूं जगती ह्रीं श्रीं जप्या ॐ जगदाश्रया ॥ १०॥

ॐ श्रीं जूं सः जगन्माता ॐ जूं जगत् क्षयंङ्करी ।
ॐ श्रीं क्लीं जानकी स्वाहा श्रीं क्लीं ह्रीं जातरूपिणी ॥ ११॥

ॐ श्रीं क्लीं जाप्यफलदा ॐ जूं सः जनवल्ल्भा ।
ॐ श्रीं क्लीं जननीतिज्ञा ॐ श्रीं जनत्रयेष्टदा ॥ १२॥

ॐ क्लीं कमलपत्राक्षी ॐ श्रीं क्लीं ह्रीं च कामिनी ।
ॐ गूं घोररवा ॐ श्रीं घोररूपा हसौः गतिः ॥ १३॥

ॐ गं गणेश्वरी ॐ श्रीं शिववामाङ्गवासिनी ।
ॐ श्रीं शिवेष्टदा स्वाहा ॐ श्रीं शीतातप्रिया ॥ १४॥

ॐ श्रीं गूं गणमाता च ॐ श्रीं क्लीं गुणरागिणी ॥

ॐ श्रीं गणेशमाता च ॐ श्रीं शङ्करवल्लभा ॥ १५॥

ॐ श्रीं क्लीं शीतलाङ्गी श्रीं शीतला श्रीं शिवेश्वरी ।
ॐ श्रीं क्लीं ग्लौं गजराजस्था ॐ श्रीं गीं गौतमी तथा ॥ १६॥

ॐ घां घुरघुरनादा च ॐ गीं गीतप्रिया हसौः ।
ॐ घां घरिणी घटान्तःस्था ॐ गीं गन्धर्वसेविता ॥१७॥

ॐ गौं श्रीं गोपति स्वाहा ॐ गीं गौं गणप्रिया ।
ॐ गीं गोष्ठी हसौः गोप्या ॐ गीं धर्माञ्सुलोचना ॥ १८॥

ॐ श्रीं गन्त्रीं हसौः घण्टा ॐ घं घण्टारवाकुला ।
ॐ घ्रीं श्रीं घोररूपा च ॐ गीं श्रीं गरुडी हसौः ॥ १९॥

ॐ गीं गणया हसौः गुर्वी ॐ श्रीं घोरद्युतिस्तथा ।
ॐ श्रीं गीं गणगन्धर्वसेवताङ्गी गरीयसी ॥ २०॥

ॐ श्रीं गाथ हसौः गोप्त्री ॐ गीं गणसेविता ॥

ॐ श्रीं गुणमति स्वाहा श्रीं क्लीं गौरी हसौः गदा ॥ २१॥

ॐ श्रीं गीं गौररूपा च ॐ गीं गौरस्वरा तथा ।
ॐ श्रीं गीं क्लीं गदाहस्ता ॐ गीं गोन्दा हसौः पयः ॥ २२॥

ॐ श्रीं गीं क्लीं गम्यरूपा च ॐ अगम्या हसौः वनम् ॥

ॐ श्रीं घोरवदना घोराकारा हसौः पयः ॥ २३॥

ॐ ह्रीं श्रीं क्लीं कोमलाङ्गी च ॐ क्रीं कालभयङ्करी ।
ऊ क्रीं कर्पतहस्ता च क्रीं ह्रूं कादम्बरी हसौः ॥ २४॥

क्रीं श्रीं कनकवर्णा च ॐ क्रीं कनकभूषणा ।
ॐ क्रीं काली हसौः कान्ता क्रीं ह्रूं कारुण्यरूपिणी ॥ २५॥

ॐ क्रीं श्रीं कूटप्रिया क्रीं ह्रूं त्रिकुता क्रीं कुलेश्वरी ।
ॐ क्रीं कम्बलवस्त्रा च क्रीं पीताम्बरसेविता ॥ २६॥

क्रीं श्रीं कुल्या हसौः कीर्तिः क्रीं श्रीं क्लीं क्लेशहारिणी ।
ॐ क्रीं कूटालया क्रीं ह्रीं कूटकर्त्री हसौः कुटीः ॥ २७॥

ॐ श्रीं क्लीं कामकमला क्लीं शीं कमला क्रीं च कौरवी ।
ॐ क्लीं श्रीं कुरुरवा ह्रीं श्रीं हाटकेश्वरपूजिता ॥ २८॥

ॐ ह्रां रां रम्यरूपा च ॐ श्रीं क्लीं काञ्चनाङ्गदा ।
ॐ क्रीईं श्रीं कुण्डली क्रीं हूँ काराबन्धनमोक्षदा ॥ २९॥

ॐ क्रीं कुर हसौः क्लऊ ब्लू ॐ क्रीं कौरवमर्दिनी ।
ॐ श्रीं कटु हसौः कुण्टी ॐ श्रीं कुष्ठक्षयङ्करी ॥ ३०॥

ॐ श्रीं चकोरकी कान्ता क्रीं श्रीं कापालिनी परा ।
ॐ श्रीं क्लीं कालिका कामा ॐ श्रीं ह्रीं क्लीं कलङ्किता॥ ३१॥

क्रीं श्रीं क्लीं क्रीं कठोराङ्गी ॐ श्रीं कपटरूपिणी ।
ॐ क्रीं कामवती क्रीं श्रीं कन्या क्रीं कालिका हसौः ॥ ३२॥

ॐ श्मशानकालिका श्रीं क्लीं ॐ क्रीं श्रीं कुटिलालका ।
ॐ क्रीं श्रीं कुटिलभ्रूश्च क्रीं ह्रूं कुटिलरूपिणी ॥ ३३॥

ॐ क्रीं कमलहस्ता च क्रीं कुण्टी ॐ क्रीं कौलिनी ।
ॐ श्रीं क्लीं कण्ठमध्यस्था क्लीं कान्तिस्वरुपिणी ॥ ३४॥

ॐ क्रीं कार्तस्वरूपा च ॐ क्रीं कात्यायनी हसौः ।
ॐ क्रीं कलावती हसौः काम्या क्रीं कलानिधीशेश्वरी ॥ ३५॥

ॐ क्रीं श्रीं सर्वमध्यस्था ॐ क्रीं सर्वेश्वरी पयः ।
ॐ क्रीं ह्रूं चक्रमध्यस्था ॐ क्रीं श्रीं चक्ररूपिणी ॥ ३६॥

ॐ क्रीं हूँ चं चकोराक्षी ॐ चं चन्दनशीतला ।
ॐ चं चर्माम्बरा ह्रूं क्रीं चारुहासा हसौः च्युता ॥ ३७॥

ॐ श्रीं चौरप्रिया हूँ च चार्वङ्गी श्रीं चलाऽचला ।
ॐ श्रीं हूँ कामराज्येष्टा कुलिनी क्रीं हसौः कुहू ॥ ३८॥

ॐ क्रीं क्रिया कुलाचारा क्रीं क्रीं कमलवासिनी ।
ॐ क्रीं हेलाः हसौः लीलाः ॐ क्रीं कालवासिनी ॥ ३९॥

ॐ क्रीं कालप्रिया ह्रूं क्रीं कालरात्रि हसौः बला ।
ॐ क्रीं श्रीं शशिमध्यस्था क्रीं श्रीं कन्दर्पलोचना ॥ ४०॥

ॐ क्रीं शीताञ्शुमुकुटा क्रीं श्रीं सर्ववरप्रदा ।
ॐ श्रीं श्याम्बरा स्वाहा ॐ श्रीं श्यामलरूपिणी ॥ ४१॥

ॐ श्रीं क्रीं श्रीं सती स्वाहा ॐ क्रीं श्रीधरसेविता ।
ॐ श्रीं रूक्षा हसौः रम्भा ॐ क्रीं रसवर्तिपथा ॥ ४२॥

ॐ कुण्डगोलप्रियकरी ह्रीं श्रीं ॐ क्लीं कुरूपिणी ।
ॐ श्रीं सर्वा हसौः तॄप्तिः ॐ श्रीं तारा हसौः त्रपा ॥ ४३॥

ॐ श्रीं तारुण्यरूपा च ॐ क्रीं त्रिनयना पयः ।
ॐ श्रीं ताम्बूलरक्तास्या ॐ क्रीं उग्रप्रभा तथा ॥ ४४॥

ॐ श्रीं उग्रेश्वरी स्वाहा ॐ श्रीं उग्ररवाकुला ।
ॐ क्रीं च सर्वभूषाढ्या ॐ श्रीं चम्पकमालिनी ॥ ४५॥

ॐ श्रीं चम्पकवल्ली च ॐ श्रीं च च्युतालया ।
ॐ श्रीं द्युतिमति स्वाहा ॐ श्रीं देवप्रसूः पयः ॥ ४६॥

ॐ श्रीं दैत्यारिपूजा च ॐ क्रीं दैत्यविमर्दिनी ।
ॐ श्रीं द्युमणिनेत्रा च ॐ श्रीं दम्भविवर्जिता ॥ ४७॥

ॐ श्रीं दारिद्रयराशिध्नी ॐ श्रीं दामोदरप्रिया ।
ॐ क्लीं दर्पापहा स्वाहा ॐ क्रीं कन्दर्पलालसा ॥ ४८॥

ॐ क्रीं करीरवॄक्षस्था ॐ क्रीं हूँङ्कारिगामिनी ।
ॐ क्रीं शुकात्मिका स्वाहा ॐ क्रीं शुककरा तथा ॥ ४९॥

ॐ श्रीं शुकश्रुतिः श्रीं क्लीं श्रीं ह्रीं शुककवित्वदा ।
ॐ क्रीं शुकप्रसू स्वाहा ॐ श्रीं क्रीं शवगामिनी ॥ ५०॥

ॐ रक्ताम्बरा स्वाहा ॐ क्रीं पीताम्बरार्चिता ।
ॐ श्रीं क्रीं स्मितसंयुक्ता ॐ श्रीं सौः स्मरा पुरा ॥ ५१॥

ॐ श्रीं क्रीं हूँ च स्मेरास्या ॐ श्रीं स्मरविवद्धिनी ।
ॐ श्री सर्पाकुला स्वाहा ॐ श्रीं सर्वोपवेशिनी ॥ ५२॥

ॐ क्रीं सौः सर्पकन्या च ॐ क्रीं सर्पासनप्रिया ।
सौः सौः क्लीं सर्वकुटिला ॐ श्रीं सुरसुरार्चिता ॥ ५३॥

ॐ श्रीं सुरारिमथिनी ॐ श्रीं सुरिजनप्रिया ।
ऐं सौः सूर्येन्दुनयना ऐं क्लीं सूर्यायुतप्रभा ॥ ५४॥

ऐं श्रीं क्लीं सुरदेव्या च ॐ श्रीं सर्वेश्वरी तथा ।
ॐ श्रीं क्षेमकरी स्वाहा ॐ क्रीं हूँ भद्रकालिका ॥ ५५॥

ॐ श्रीं श्यामा हसौः स्वाहा ॐ श्रीं ह्रीं शर्वरीस्वाहा ।
ॐ श्रीं क्लीं शर्वरी तथा ॐ श्रीं क्लीं शाअन्तरूपिणी ॥ ५६॥

ॐ क्रीं श्रीं श्रीधरेशानी ॐ श्रीं क्लीं शासिनी तथा ।
ॐ क्लीं शितिर्हसौः शौरी ॐ श्रीं क्लीं शारदा तथा ॥ ५७॥

ॐ श्रीं ह्रीं शारिका स्वाहा ॐ श्रीं शाकम्भरी तथा ।
ॐ श्रीं क्लीं शिवरूपा च ॐ श्रीं क्लीं कामचारिणी ॥ ५८॥

ॐ यं यज्ञेश्वरी स्वाहा ॐ श्रीं यज्ञप्रिया सदा ।
ॐ ऐं क्लीं यं यज्ञरूपा च ॐ श्रीं यं यज्ञदक्षिणा ॥ ५९॥

ॐ श्रीं यज्ञार्चिता स्वाहा ॐ यं याज्ञिकपूजिता ।
श्रीं ह्रीं यं यजमानस्त्री ॐ यज्वा हसौः वधूः ॥ ६०॥

श्रीं वां बटुकपूजिता ॐ श्रीं वरूथिनी स्वाहा ॥

ॐ क्रीं वार्ता हसौः ॐ श्रीं वरदायिनी स्वाहा॥ ६१॥

ॐ श्रीं क्लीं ऐं च वाराही ॐ श्रीं क्लीं वरवर्णिनी ।
ॐ ऐं सौः वार्तदा स्वाहा ॐ श्रीं वाराङ्गना तथा॥ ६२॥

ॐ श्रीं वैकुण्ठपूजा च वां श्रीं ऐं क्लीं च वैष्णवी ।
ॐ श्रीं ब्रां ब्राह्मणी स्वाहा ॐ क्रीं ब्राह्मणपूजिता ॥ ६३॥

ॐ श्रीं ऐं क्लीं च इन्द्राणी ॐ क्लीं इन्द्रपूजिता ।
ॐ श्रीं क्लीं ऐन्द्रि ऐं स्वाहा ॐ श्रीं क्लीं इन्दुशेखरा ॥ ६४॥

ॐ ऐं इन्द्रसमानाभा ॐ ऐं क्लीं इन्द्रवल्लभा ।
ॐ श्रीं इडा हसौः नाभिः ॐ श्रीं ईश्वरपूजिता ॥ ६५॥

ॐ ब्रां ब्राह्मी क्लीं रुं रुद्राणी ॐ ऐं द्रीं श्रीं रमा तथा ।
ॐ ऐं क्लीं स्थाणुप्रिया स्वाहा ॐ गीं पदक्षयकरी ॥ ६६॥

ॐ गीं गीं श्रीं गुरस्था च ऐं क्लीं गुदविवर्द्धिनी ।
ॐ श्रीं क्रीं क्रूं कुलीरस्था ॐ क्रीं श्रीं कूर्मपृष्ठगा ॥ ६७॥

ॐ श्रीं धूं तोतला स्वाहा ॐ त्रौं त्रिभुवनार्चिता ।
ॐ प्रीं प्रीतिर्हसौः प्रीतां प्रीं प्रभा प्रीं पुरेश्वरी ॥ ६८॥

ॐ प्रीं पर्वतपुत्री च ॐ प्रीं पर्वतवासिनी ।
ॐ श्रीं प्रीतिप्रदा स्वाहा ॐ ऐं सत्त्वगुणाश्रिता ॥ ६९॥

ॐ क्लीं सत्यप्रिया स्वाहा ऐं सौं क्लीं सत्यसङ्गरा ।
ॐ श्रीं सनातनी स्वाहा ॐ श्रीं सागरशायिनी ॥ ७०॥

ॐ क्लीं चं चन्द्रिका ऐं सौं चन्द्रमण्डलमध्यगा ।
ॐ श्रीं चारुप्रभा स्वाहा ॐ क्रीं प्रें प्रेतशायिनी ॥ ७१॥

ॐ श्रीं श्रीं मथुरा ऐं क्रीं काशी श्रीं श्रीं मनोरमा ।
ॐ श्रीं मन्त्रमयी स्वाहा ॐ चं चन्द्रकशीतला ॥ ७२॥

ॐ श्रीं शाङ्करी स्वाहा ॐ श्रीं सर्वाङ्गवासिनी ।
ॐ श्रीं सर्वप्रिया स्वाहा ॐ श्रीं क्लीं सत्यभामिनी ॥ ७३॥

ॐ क्लीं सत्यात्मिका स्वाहा ॐ क्लीं ऐं सौः च सात्त्विकी ।
ॐ श्रीं रां राजसी स्वाहा ॐ क्रीं रम्भोपमा तथा ॥ ७४॥

ॐ श्रीं राघवसेव्या च ॐ श्रीं रावणघातिनी ।
ॐ निशुम्भोहन्त्री ह्रीं श्रीं क्लीं ॐ क्रीं शुम्भमदापहा ॥ ७५॥

ॐ श्रीं रक्तप्रिया हरा ॐ श्रीं क्रीं रक्तबीजक्षयङ्करी ।
ॐ श्रीं माहिषपृष्टस्था ॐ श्रीं महिषघातिनी ॥ ७६॥

ॐ श्रीं माहिषे स्वाहा ॐ श्रीं श्रीं मानवेष्टदा ।
ॐ श्रीं मतिप्रदा स्वाहा ॐ श्रीं मनुमयी तथा ॥ ७७॥

ॐ श्रीं मनोहराङ्गी च ॐ श्रीं माधवसेविता ।
ॐ श्रीं माधवस्तुत्या च ॐ श्रीं वन्दीस्तुता सदा ॥ ७८॥

ॐ श्रीं मानप्रदा स्वाहा ॐ श्रीं मान्या हसौः मतिः ।
ॐ श्रीं श्रीं भामिनी स्वाहा ॐ श्रीं मानक्षयङ्करी ॥ ७९॥

ॐ श्रीं मार्जारगम्या च ॐ श्रीं श्रीं मृगलोचना ।
ॐ श्रीं मरालमतिः ॐ श्रीं मुकुरा प्रीं च पूतना ॥ ८०॥

ॐ श्रीं परापरा च ॐ श्रीं परिवारसमुद्भवा ।
ॐ श्रीं पद्मवरा ऐं सौः पद्मोद्भवक्षयङ्करी ॥ ८१॥

ॐ प्रीं पद्मा हसौः पुण्यै ॐ प्रीं पुराङ्गना तथा ।
ॐ प्रीं पयोदृशदृशी ॐ प्रीं परावतेश्वरी ॥ ८२॥

ॐ पयोधरनम्रङ्गी ॐ ध्रीं धाराधरप्रिया ।
ॐ धृति ऐं दया स्वाहा ॐ ॐ श्रीं क्रीं श्रीं दयावती ॥ ८३॥

ॐ श्रीं द्रुतगतिः स्वाहा ॐ द्रीं द्रं वनघातिनी ।
ॐ चं चर्माम्बरेशानी ॐ चं चण्डालरूपिणी ॥ ८४॥

ॐ चामुण्डाहसौः चण्डी ॐ चं क्रीं चण्डिकापयः ।
ॐ क्रीं चण्डप्रभा स्वाहा ॐ चं क्रीं चारुहासिनी ॥ ८५॥

ॐ क्रीं श्रीं अच्युतेष्टा ह्रीं चण्डमुण्डक्षयकरी ।
ॐ त्रीं श्रीं त्रितये स्वाहा ॐ श्रीं त्रिपुरभैरवी ॥ ८६॥

ॐ ऐं सौः त्रिपुरानन्दा ॐ ऐं त्रिपुरसूदिना ।
ॐ ऐं क्लीं सौः त्रिपुरध्यक्षा ऐं त्रौं श्रीं त्रिपुराऽऽश्रया ॥ ८७॥

ॐ श्रीं त्रिनयने स्वाहा ॐ श्रीं तारा वरकुला ।
ॐ श्रीं तुम्बुरुहस्ता च ॐ श्रीं मन्दभाषिणी ॥ ८८॥

ॐ श्रीं महेश्वरी स्वाहा ॐ श्रीं मोदकभक्षिणी ।
ॐ श्रीं मन्दोदरी स्वाहा ॐ श्रीं मधुरभाषिणी ॥ ८९॥

ॐ म्रीं श्रीं मधुरलापा ॐ श्रीं मोहितभाषिणी ।
ॐ श्रीं मातामही स्वाहा ॐ मान्या म्रीं मदालसा ॥ ९०॥

ॐ म्रीं मदोद्धता स्वाहा ॐ म्रीं मन्दिरवासिनी ।
ॐ श्रीं क्लीं षोडशारस्था ॐ म्रीं द्वादशरूपिणी ॥ ९१॥

ॐ श्रीं द्वादशपत्रस्था ॐ श्रीं अं अष्टकोणगा ।
ॐ म्रीं मातङ्गी हसौः श्रीं क्लीं मत्तमातङ्गगामिनी ॥ ९२॥

ॐ म्रीं मालापहा स्वाहा ॐ म्रीं माता हसौः सुधा ।
ॐ श्रीं सुधाकला स्वाहा ॐ श्रीं म्रीं मांसिनी स्वाहा ॥ ९३॥

ॐ म्रीं माला करी तथा ॐ म्रीं मालाभूषिता ।
ॐ म्रीं माध्वी रसापूर्णा ॐ श्रीं सूर्या हसौः सती ॥ ९४॥

ॐ ऐं सौः क्लीं सत्यरूपा ॐ श्रीं दीक्षाहसौः दरी ।
ॐ द्रीं दातॄप्रिया ह्रीं श्रीं दक्षयज्ञविनाशिनी ॥ ९५॥

ॐ दातृप्रसू स्वाहा ॐ श्रीं दाता हसौः पयः
ॐ श्रीं ऐं सौः च सुमुखी ॐ ऐं सौः सत्यवारुणी ॥ ९६॥

ॐ श्रीं साडम्बरा स्वाहा ॐ श्रीं ऐं सौः सदागतिः ।
ॐ श्रीं सीता हसौः सत्या ॐ ऐं सन्तानशायिनी ॥ ९७॥

ॐ ऐं सौः सर्वदृष्टिश्च ॐ क्रीं कल्पान्तकारिणी ।
ॐ श्रीं चन्द्रकल्लधरा ॐ ऐं श्रीं पशुपालिनी ॥ ९८॥

ॐ श्रींशिशुप्रिया ऐं सौः शिशूत्सङ्गनिवेशिता ।
ॐ ऐं सौः तारिणी स्वाहा ॐ ऐं क्लीं तामसी तथा॥ ९९॥

ॐ म्रीं मोहान्धकारघ्नी ॐ म्रीं मत्तमनास्तथा ।
ॐ म्रीं श्रीं माननीया च ॐ प्रीं पूजाफलदा ॥ १००॥

ॐ श्रीं श्रीं श्रीफला स्वाहा ॐ श्रीं क्लीं सत्यरूपिणी ।
ॐ श्रीं नारायणी स्वाहा ॐ श्रीं नूपुराकिला ॥ १०१॥

ॐ म्रीं श्रीं नारसिंही च ॐ म्रीं नारायाणप्रिया ।
ॐ म्रीं हंसगतिः स्वाहा ॐ श्रीं हंसौ हसौः पयः ।१०२॥

ॐ श्रीं क्रीं करवालेष्टा ॐ क्रीं कोटरवासिनी ॥

ॐ क्रीं काञ्चनभूषाढ्या ॐ क्रीं श्रीं कुरीपयः ॥ १०३॥

ॐ क्रीं शशिरूपा च श्रीं सः सूर्यरूपिणी ।
ॐ श्रीं वामप्रिया स्वाहा ॐ वीं वरुणपूजिता ॥ १०४॥

ॐ वीं वटेश्वरी स्वाहा ॐ वीं वामनरूपिणी ।
ॐ रं व्रीं श्रीं खेचरी स्वाहा ॐ रं व्रीं श्रीं साररूपिणी ॥ १०५॥

ॐ रं ब्रीं खड्गधारिणी स्वाहा ॐ रं ब्रीं खप्परधारिणी ।
ॐ रं ब्रीं खर्परयात्रा च ॐ प्रीं प्रेतालया तथा ॥ १०६॥

ॐ श्रीं क्लीं प्रीं च दूतात्मा ॐ प्रीं पुष्पवर्द्धिनी ।
ॐ श्रीं श्रीं सान्तिदा स्वाहा ॐ प्रीं पातालचारिणी ॥ १०७॥

ॐ म्रीं मूकेश्वरी स्वाहा ॐ श्रीं श्रीं मन्त्रसागरा ।
ॐ श्रीं क्रीं क्रयदा स्वाहा ॐ क्रीं विक्रयकारिणी ॥ १०८॥

ॐ क्रीं क्रयात्मिका स्वाहा ॐ क्रीं श्रीं क्लीं कृपावती ।
ॐ क्रीं श्रीं ब्रां विचित्राङ्गी ॐ श्रींक्लीं वीं विभावरी ॥ १०९॥

ॐ वीं श्रीं विभावसुनेत्रा ॐ वीं श्रीं वामकेश्वरी ।
ॐ श्रीं वसुप्रदा स्वाहा ॐ श्रीं वैश्रवणार्चिता ॥ ११०॥

ॐ भैं श्रीं भाग्यदा स्वाहा ॐ भैं भैं भगमालिनी ।
ॐ भैं श्रीं भगोदरा स्वाहा ॐ भैं क्लीं वैन्दवेश्वरी ॥ १११॥

ॐ भैं श्रीं भवमध्यस्था ऐं क्लीं त्रिपुरसुन्दरी ।
ॐ श्रीं क्रीं भीतिहर्त्री च ॐ भैं भूतभयङ्करी ॥ ११२॥

ॐ भैं भयप्रदा भैं श्रीं भगिनी भैं भयापहा ।
ॐ ह्रीं श्रीं भोगदा स्वाहा श्रीं क्लीं ह्रीं भुवनेश्वरी ॥ ११३॥

इति श्रीदेवदेवेशि ! नाम्ना साहस्रकोत्तमः ।
मन्त्रगर्भं परं रम्यं गोप्यं श्रीदं शिवात्मकम् ॥ ११४॥

माङ्गल्यं भद्रद सेव्यं सर्वरोगक्षयङ्करम् ।
सर्वदारिद्रयराशिघ्नं सर्वामरप्रपूजितम् ॥ ११५॥

रहस्यं सर्वदेवानां रहस्यं सर्वदेहिनाम् ।
दिव्यं स्तोत्रमिदं नाम्नां सहस्रमनुभिर्युतम् ॥ ११६॥

परापरं मनुमयं परापररहस्यकम् ।
इदं नाम्नां सहस्राख्यं स्तवं मन्त्रमयं परम् ॥ ११७॥

पठनीयं सदा देवि ! शून्यागारे चतुष्पथे ।
निशीथे चैव मध्याह्ने लिखेद् यत्नेन देशिकः ॥ ११८॥

गन्धैश्च कुसुमैश्चैव कर्पूरेण च वासितैः ।
कस्तूरीचन्दनैर्देवि ! दूर्वया च महेश्वरी ! ॥ ११९॥

रजस्वलाया रक्तेन लिखेन्नाम्नां सहस्रकम् ।
लिखित्वा धारयेन्मूर्ध्नि साधकः सुभवाञ्छकः ॥ १२०॥

यं यं कामयते कामं तं तं प्राप्नोति लीलया ।
अपुत्रो लभते पुत्रान् धनार्थी लभते धनम् ॥ १२१॥

कन्यार्थी लभते कन्यां विद्यार्थी शास्त्रपारगः ।
वन्ध्या पुत्रयुता देवि ! मृतवत्सा तथैव च ॥ १२२॥

पुरुषो दक्षिणे बाहौ योषिद् वामकरे तथा ।
धृत्वा नाम्नां सहस्रं तु सर्वसिद्धिर्भवेद् ध्रुवम् ॥ १२३॥

नात्र सिद्धाद्यपेक्षाऽस्ति न वा मित्रारिदूषणम् ।
सर्वसिद्धिकृतं चैतत् सर्वाभीष्टफलप्रदम् ॥ १२४॥

मोहान्धकारापहरं महामन्त्रमयं परं ।
इदं नाम्नां सहस्रं तु पठित्वा त्रिविधं दिनम् ॥ १२५॥

रात्रौ वारत्रयं चैव तथा मासत्रयं शिवे ! ।
बलिं दद्याद् यथाशक्त्या साधकः सिद्धिवाञ्छकः ॥ १२६॥

सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा।
पञ्चम्यां च नवम्यां च चतुर्दश्यां विशेषतः ॥ १२७॥

पठित्वा साधको दद्याद् बलिं मन्त्रविधानवित् ।
कर्मणा मनसा वाचा साधको भैरवो भवेत् ॥ १२८॥

अस्य नाम्नां सहस्रस्य महिमानं सुरेश्वरि !।
वक्तुं न शक्यते देवि ! कल्पकोटिशतैरपि ॥ १२९॥

मारीभये चौरभये रणे राजभये तथा ।
अग्निजे वायुजे चैव तथा कालभये शिवे !॥ १३०॥

वनेऽरण्ये श्मशाने च महोत्पाते चतुष्पथे ।
दुर्भिक्षे ग्रहपीडायां पठेन्नाम्नां सहस्रकम् ॥ १३१॥

तत् सद्यः प्रशमं याति हिमवद्भास्करोदये ।
एकवारं पठेत् पात्रः तस्य शत्रुर्न जायते ॥ १३२॥

त्रिवारं सुपठेद् यस्तु स तु पूजाफलं लभेत् ।
दशावर्तं पठेत् यस्तु देवीदर्शनमाप्नुयात् ॥ १३३॥

शतावतं पठेद् यस्तु स सद्यो भैरवोपमः ।
इदं रहस्यं परमं तव प्रीत्या मया स्मॄतम् ॥ १३४॥

गोपनीयं प्रयत्नेन चेत्याज्ञा परमेश्वरि ! ।
नाभक्तेभ्यस्तु दातव्यो गोपनीयं महेश्वरि ॥ १३५॥
॥ इति श्रीभुवनेश्वरीरहस्ये श्रीभुवनेश्वरीमन्त्रगर्भसहस्रनामकं
सम्पूर्णम् ॥
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...