Sunday 13 August 2017

कुञ्जविहार्यष्टकम्

कुञ्जविहार्यष्टकम्  ॥
अविरतरतिबन्धुस्मेरताबन्धुरश्रीः
कबलित इव राधापाङ्गभङ्गीतरङ्गैः ।
मुदितवदनचन्द्रश्चन्द्रिकापीतधारी
मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥
ततसुषिरघनानां नादमानद्धभाजां
जनयति तरुणीनां मण्डले मण्डितानाम् ।
तटभुवि नटराजक्रीडया भानुपुत्र्याः
विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २॥
शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये
स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् ।
धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं
त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३॥

अनुपमकरशाखोपात्तराधाङ्गुलीको
लघु लघु कुसुमानां पर्यटन् वाटिकायाम् ।
सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः
व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४॥

अहिरिपुकृतलास्ये कीचकारब्धवाद्ये
व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि ।
विरचितपरिचर्यश्चित्रतौर्यत्रिकोण-
स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५॥

दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः
प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः ।
तदतिरहसि वृत्तं प्रेयसीकर्णमूले
स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६॥

तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी
नयनकमललक्ष्मीर्वन्दते कृष्णसारः ।
अलिरलमलकान्तं नौति पश्येति राधां
सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥ ७॥
मदनतरलबाला चक्रवालेन विष्वग्-
विविधवरकलानां शिक्षया सेव्यमानः ।
स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः
प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८॥

इदमनुपमलीलाहारि कुञ्जे विहारी
स्मरणपदमधीते तुष्टधीरष्टकं यः ।
निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं
नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९॥
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
इति कुञ्जविहार्यष्टकम् २ समाप्तम् ॥

No automatic alt text available.

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...