श्री गोकुलेशाष्टकम् ॥
नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभुरिभाग्यभाजनं भयापहम् ।
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहम्
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ १॥
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम् ।
पद्मयोनिशङ्करादिदेववृन्दवन्दितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ २॥
गोपराजरत्नराजिमन्दिरानुरिङ्गणं
गोपबालबालिकाकलानुरुद्धगायनम् ।
सुन्दरीमनोजभावभाजनाम्बुजाननं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ३॥
कंसकेशिकुञ्जराजदुष्टदैत्यदारणं
इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् ।
कामधेनुकारिताभिधानगानशोभितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ४॥
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् ।
धेनुधूलिधूसराङ्गशोभिहारनूपुरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ५॥
वत्सधेनुगोपबालभीषणोत्थवह्निपं
केकिपिच्छकल्पितावतंसशोभिताननम् ।
वेणुवाद्यमत्तधोषसुन्दरीमनोहरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ६॥
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं
शारदारविन्दवृन्दशोभिहंसजारतम् ।
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ७॥
वासरावसानगोष्ठगामिगोगणानुगं
धेनुदोहदेहगेहमोहविस्मयक्रियम् ।
स्वीयगोकुलेशदानदत्तभक्तरक्षणं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८॥
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
॥ इति श्रीरघुनायप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ॥

नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभुरिभाग्यभाजनं भयापहम् ।
धेनुधर्मरक्षणावतीर्णपूर्णव
नीलवारिवाहकान्तिगोकुलेशमाश
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्द
पद्मयोनिशङ्करादिदेववृन्दवन
नीलवारिवाहकान्तिगोकुलेशमाश
गोपराजरत्नराजिमन्दिरानुरिङ
गोपबालबालिकाकलानुरुद्धगायन
सुन्दरीमनोजभावभाजनाम्बुजान
नीलवारिवाहकान्तिगोकुलेशमाश
कंसकेशिकुञ्जराजदुष्टदैत्यद
इन्द्रसृष्टवृष्टिवारिवारणो
कामधेनुकारिताभिधानगानशोभित
नीलवारिवाहकान्तिगोकुलेशमाश
गोपिकागृहान्तगुप्तगव्यचौर्
दुग्धभाण्डभेदभीतलज्जितास्य
धेनुधूलिधूसराङ्गशोभिहारनूप
नीलवारिवाहकान्तिगोकुलेशमाश
वत्सधेनुगोपबालभीषणोत्थवह्न
केकिपिच्छकल्पितावतंसशोभिता
वेणुवाद्यमत्तधोषसुन्दरीमनो
नीलवारिवाहकान्तिगोकुलेशमाश
गर्वितामरेन्द्रकल्पकल्पिता
शारदारविन्दवृन्दशोभिहंसजार
दिव्यगन्धलुब्धभृङ्गपारिजात
नीलवारिवाहकान्तिगोकुलेशमाश
वासरावसानगोष्ठगामिगोगणानुग
धेनुदोहदेहगेहमोहविस्मयक्रि
स्वीयगोकुलेशदानदत्तभक्तरक्
नीलवारिवाहकान्तिगोकुलेशमाश
!!Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557
॥ इति श्रीरघुनायप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ॥
