Friday 23 February 2018

तुलजाष्टकम् तुलजा भवानी

तुलजाष्टकम् तुलजाभवानी
दुग्धेन्दु कुन्दोज्ज्वलसुन्दराङ्गींमुक्ताफलाहारविभूषिताङ्गीम् ।
शुभ्राम्बरां स्तनभरालसाङ्गींवन्देऽहमाद्यां तुलजाभवानीम् ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
बालार्कभासामतिचारुहासांमाणिक्यमुक्ताफलहारकण्ठीम् ।
रक्ताम्बरां रक्तविशालनेत्रींवन्देऽहमाद्यां तुलजाभवानीम् ॥ २॥
श्यामाङ्गवर्णां मृगशावनेत्रांकौशेयवस्त्रां कुसुमेषु पूज्याम् ॥ 
कस्तूरिकाचन्दनचर्चिताङ्गींवन्देऽहमाद्यां तुलजाभवानीम् ॥ ३॥
पीताम्बरां चम्पककान्तिगौरीं अलङ्कृतामुत्तममण्डनैश्च ।
नाशाय भूतां भुवि दानवानां वन्देऽहमाद्यां तुलजाभवानीम् ॥ ४॥
चन्द्रार्कताटङ्कधरां त्रिनेत्रां
शूलं दधानामतिकालरूपाम् ।
विपक्षनाशाय धृतायुधां तां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ५॥
ब्रह्मेन्द्र नारायणरुद्रपूज्यां
देवाङ्गनाभिः परिगीयमानाम् ।
स्तुतां वचोभिर्मुनिनारदाद्यैः
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ६॥
अष्टाङ्गयोगे सनकादिभिश्च
ध्यातां मुनीन्द्रैश्च समाधिगम्याम् ।
भक्तस्य नित्यं भुवि कामधेनुं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ७॥
सिंहासनस्थां परिवीज्यमानां
देवैः समस्तैश्च सुचामरैश्च ।
छत्रं दधानामतिशुभ्रवर्णां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ८॥
पूर्णः कटाक्षोऽखिललोकमातु-
र्गिरीन्द्रकन्यां भजतां सुधन्याम् ।
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुतः स्याद्भवसागरस्य ॥ ९॥
तुलजाष्टकमिदं स्तोत्रं त्रिकालं यः पठेन्नरः ।
आयुः कीर्तिर्यशो लक्ष्मी धनपुत्रानवाप्नुयात् ॥ १०॥
Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!!
॥ इति श्रीमच्छङ्कराचार्य विरचितं तुलजाष्टकम् सम्पूर्णम् ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...