Thursday 19 April 2018

श्री अन्नपूर्णा स्तोत्रम्

श्री अन्नपूर्णा स्तोत्रम्
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । घोरपापनिकरी प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १॥https://goo.gl/maps/N9irC7JL1Noar9Kt5।,,,,,,,,,,,Astrologer Gyanchand Bundiwal M. 0 8275555557
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत् वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ २॥
योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ३॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ४॥
दृश्यादृश्य विभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ५॥
उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ६॥
आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ७॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधरा प्रियकरी सौभाग्य माहेश्वरी ।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ८॥
चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ ९॥
क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी ॥ १०॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११॥
माता मे पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १२॥
॥ इति श्रीशङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥
भगवति भवरोगात्पीडितं दुष्कृतोत्वात्
सुतदुहितृकलत्रोपद्रवेणानुयातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तं
सकलभुवनमातस्त्राहि मामो नमस्ते ॥ ११॥
माहेश्वरीमाश्रितकल्पवल्लीमहम्भवोच्छेदकरी भवानीम् ।
क्षुधार्तजायातनयाद्युपेतस्त्वामन्नपूर्णे शरणं प्रपद्ये ॥ १२॥
दारिद्र्यदावानलदह्यमानं पाह्यन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुधौ मज्जय मां त्वदीये त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १३॥
अन्नपूर्णा स्तोत्रम् २
श्रीब्रह्मभैरव उवाच -
साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।
इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥
श्रीशिव उवाच -
कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।
अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥
ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं
मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।
ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे
गेहे तस्य विराजते सरभसं दिव्यान्नराशिर्ध्रुवम् ॥ ३॥
ह्रींकारमुर्तिं कमनीयवक्त्रां चन्द्राङ्करेखान्वितभालभागाम् ।
ईशान्कान्तां प्रणमामि नित्यां लक्ष्मीविलासास्पदपादपीठाम् ॥ ४॥
नमोऽस्तु तुभ्यं गिरिराजकन्ये नमोऽस्तु कामान्तकवल्लभायै ।
नमोऽस्तु पङ्के रुहलोचनायै नमः शिवायै शशिभूषणायै ॥ ५॥
वामे करेऽमृतमयं कलशञ्च दक्षे
स्वर्णाङ्कितां ननु पल्लान्नमयीञ्च दर्वीम् ।
चित्रां सुवर्णवसनां गिरिशस्य कान्तां
सत्पद्मपत्रनयनां मनसाहमीडे ॥ ६॥
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे
दिव्यैरत्नैः प्रपूर्णां मणिमयवलये दक्षिणे रत्नदर्वीम् ।
रक्ताङ्गी पीनतुङ्गस्तनभरविलसंस्तारहारां त्रिनेत्रां
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णाम् ॥ ७॥
भगवति भवरोगात् पीडितं दुष्कृतोत्थात्
सुतदुहितृकलत्रोपद्रवेणानुजातम् ।
विलसदमृतदृष्ट्या वीक्ष्य विभ्रान्तचित्तम्
सकलभुवनमातस्त्राहि मामन्नपूर्णे ॥ ८॥
माहेश्वरीमाश्रितकल्पवल्लीमहं भवच्छेदकरीं भवानीम् ।
क्षुधार्तजायातनयाभ्युपेतस्त्वामन्नपूर्णां शरणं प्रपद्ये ॥ ९॥
दारिद्र्यदावानलदह्यमानं नमोऽन्नपूर्णे गिरिराजकन्ये ।
कृपाम्बुवर्षैरभिषिञ्च त्वं मां त्वत्पादपद्मार्पितचित्तवृत्तिम् ॥ १०॥
इत्यन्नपूर्णास्तवरत्नमेतच्छ्लोकाष्टकं यः पठतीह भक्त्या ।
तस्मै ददात्यन्नसमृद्धिराशिं श्रियञ्च विद्याञ्च परत्र मुक्तिम् ॥ ११॥
इत्यन्नदाकल्पे षोडशपटले अन्नपूर्णास्तोत्रं समाप्तम् ।
!!!! Astrologer Gyanchand Bundiwal. Nagpur । M.8275555557 !!

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...