Wednesday 6 August 2014

गणेश पञ्चरत्नं संपूर्णम्

मुदा करात्त मोदकं सदा विमुक्ति साधकं कलाधरावतंसकं विलासि लोक रक्षकम्
अनायकैक नायकं विनाशितेभ दैत्यकं नताशुभाशु नाशकं नमामि तं विनायकम् ॥
नतेतराति भीकरं नवोदितार्क भास्वरं नमत् सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्त लोक शंकरं निरास्त दैत्य कुन्जरं दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥
अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्चनाश भीषणं धनंजयादि भूषणं कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥
महागणेश पञ्चरत्नं आदरेण योन्ऽवहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ॥
॥ इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ॥

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...