Wednesday 28 January 2015

गणपती स्तोत्रे ,,श्री महागणेश पञ्चरत्नं

गणपती स्तोत्रे ,,श्री महागणेश पञ्चरत्नं ,, श्री महागणेश पञ्चरत्नं मुदा करात्त मोदकं सदा विमुक्ति साधकं कलाधरावतंसकं विलासि लोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकं नताशुभाशु नाशकं नमामि तं विनायकम् ॥१॥
नतेतराति भीकरं नवोदितार्क भास्वरं नमत् सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्त लोक शंकरं निरास्त दैत्य कुन्जरं दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् ।
प्रपञ्चनाश भीषणं धनंजयादि भूषणं कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥५॥
फल श्रुती
महागणेश पञ्चरत्नं आदरेण योन्ऽवहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ॥६॥
इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ॥

Photo: ॐ श्री गणेशाय नमः. वक्रतुंड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा 
गजाननं भूतगणादिसेवितं कपित्थजंबूफलचारुभक्षणम्‌ ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्‌ 
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
मूषिकवाहन् मोदकहस्त चामरकर्ण विलम्बित सूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...