Thursday 8 May 2014

काली मन्त्र, kali mantra ,ॐ क्रीं काल्यै नमः

kali mantra काली  मन्त्र,,ॐ क्रीं काल्यै नमः ॥

बीज मन्त्र ,,ॐ ह्रीं श्रीं क्रीं परमेस्वारी कालीके स्वाहा ॥
गायत्री मन्त्र,,ॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि । तन्नो काली प्रचोदयात् ॥
ध्यानम्,,करालवदनां घोरां मुक्तकेशीं चतुर्भुजां । कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥
सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां । अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीं । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां ॥
कर्णावतंसतानीतशव युग्मभयानकां । घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं । सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् । बालार्कमण्डलाकारलोचनत्रितयान्वितां ॥
दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां । शवरूप महादेवहृदयोपरिसंस्थितां ॥
शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां । महाकालेन च समं विपरीतरतातुरां ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहां । एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥
,,,(jyotish aur ratna paramarsh karta)08275555557 ,,

Latest Blog

शीतला माता की पूजा और कहानी

 शीतला माता की पूजा और कहानी   होली के बाद शीतला सप्तमी और शीतला अष्टमी का पर्व मनाया जाता है. इसे बसौड़ा पर्व भी कहा जाता है  इस दिन माता श...